पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२ )

लङ्कापतेः सङ्कुचितं यशो यद् यत्कीर्तिपात्रं रघुराजपुत्रः ।
स सर्व एवाऽऽदिकवेः प्रभावो न कोपनीयाः कवयः क्षितीन्द्रैः ॥२७॥

अन्वयः

 यत् लङ्कापतेः यशः सड्कुचितं यत् रघुराजपुत्रः कीर्तिपात्रं, सः सर्वः एव आदिकवेः प्रभावः, क्षितीन्द्रैः कवयः न कोपनीयाः ।

व्याख्या

 यल्लङ्कापते रावणस्य यश कीर्ति 'यश कीर्ति समज्ञा च स्तव स्तोत्र स्तुतिर्नुति' इत्यमर । सङ्कुचितमविस्तृत नष्टमित्यर्थं । यद्रघुराजस्य दशरथस्य पुत्रो राम कीर्तिपात्रं यशोभाजन जात स सर्व एवाऽदिकवेर्वाल्मीके प्रभावः कौशलकार्यमित्यर्थः । अत क्षितीन्द्रैः राजभिः कवयो न कोपनयाः न क्रोधनीया नापमाननीया इतिभाव । यदिति वाक्यार्थपरामर्शकः ।

भाषा

 रावण की कीर्ति जो न फैल सकी अर्थात् नष्ट हो गई और दशरथ जी के पुत्र राम जी, जो कीर्ति के पात्र हुए, यह सब आदि कवि वाल्मीकि का ही प्रताप है । इसलिए राजाओं को कभी भी कवियो को कुपित न करना चाहिये।

गिरां प्रवृत्तिर्मम नीरसाऽपि मान्या भवित्री नृपतेश्चरित्रैः ।
के वा न शुष्कां मृदमभ्रसिन्धु-सम्बन्धिनीं मूर्द्धनि धारयन्ति ॥२८॥

अन्वयः

 मम नीरसा अपि गिरा प्रवृत्तिः नृपतेः चरित्रैः मान्या भवित्री । के वा शुष्काम् मृदमभ्रसिन्धु-सम्बन्धिनीं मृदं मूर्द्धनि न धारयन्ति ।

व्याख्या

 मम मदीया नीरसाऽपि रसरहिताऽपि गिरां वाचां प्रवृत्ति प्रवर्तन व्यापारो वा नृपते राज्ञो विक्रमाङ्कदेवस्य चरित्रैश्चरितैर्हेतुभिर्मान्या पूज्या भवित्री भाविनी । प्रकृत्या चारु राज्ञश्चरितमत्र वर्णितमिति हेतोरिदं काव्यं विदुषां रसनीयत्वमुपयास्यत्वेवेति भावः । के वा मनुष्या शुष्कां रसरहितामभ्रसिन्धोजान्हव्या सम्बन्धिनीं तटगता मृद् मृत्तिका मूर्द्धनि शिरसि न धारयन्ति नाऽवतसयन्ति ।