पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४७० )

विरहविधुरकामिनीसहस्त्र-प्रहितमनोमवलेखसूक्तिमिश्रैः।
सुरभिसमयवणनैरकुवन्निति नृपतेरथ वन्दिनः प्रमोदम् ॥७७॥

अन्वयः

 अथ वन्दिनः इति विरहविधुरकामिनीसहस्रप्रहितमनोभवलेखसूक्ति- मिश्रैः सुरभिसमयवर्णनैः नृपतेः प्रमोदम् अकुर्वन् ।

व्याख्या

 अथाऽनन्तर वन्दिन स्तुतिपाठका इति पूर्वोक्तप्रकारेण विरहेण कान्तवियोगेन तज्जनितक्लेशेनेत्यर्थ । विधुरा विह्वला कामिन्यस्तासा सहत्र तेन प्रहिता. प्रेषिता मनोभवलेखा कामसम्बन्धिलिखितपत्राणि तेषु सूक्तयस्सुभाषितानि ताभिर्मिश्राणि मिलितानि ते सुरभिसमयस्य वसन्तर्तो ‘वसन्ते पुष्पसमयस्सुरभि' इत्यमरः । वर्णनानि तैर्नृपते राज्ञो विक्रमाङ्कदेवस्य प्रमोदमानन्द मनोविनोदमि- त्यर्थः । अकुर्वन् चक्रु । पुपष्पिताप्रावृत्तम् ।

भाषा

 इस प्रकार स्तुतिपाठक लोगो ने, विरह से व्याकुल भई हुईं हजारो कामिनिंओ के द्वारा भेजे जाने वाले प्रमपत्रा की सूक्तियो से मिश्रित, वसन्त ऋतु के वर्णनों रो, राजा विक्रमाङ्कदेव को आनन्दित किया ।

 इति श्री त्रिभुवनमल्लदेव विद्यापति-वाश्मीरकभट्ट श्री बिल्हण विरचिते विक्रमाङ्कदेवचरिते महाकाव्ये सप्तम सर्ग ।

नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात्
भारद्वाजवुघोत्तमात्समुदितः श्री विश्वनाथः सुधीः ।
चक्रे रामकुबेरपण्डितवरात्सम्प्राप्तसाहाय्यक-
ष्टीकायुग्ममिदं रमाकरुणया सर्गे नवे सहसे ॥

ॐ शान्ति शान्ति शान्ति ।

॥ श्रीसङ्कष्टनाशिन्यै नम ॥

हरि ॐ