पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४६६ )

अन्वयः

 उन्माद्यन्मधुपेन पुष्पमधुना केलीभुवः पङ्किलाः (जाताः) सर्वे पादपाः कुसुमप्राग्भारतः भङ्गभयं दिशन्ति । संप्रति चैत्रेण लक्ष्येषु अलक्ष्येषु च बाणमोक्षरसिकः कामः अस्रपरम्पराव्ययविधौ दैन्यं परित्याजितः ।

व्याख्या

 उन्माद्यन्तो मदं प्रापिता मधुपा भ्रमरा येन स तेन पुष्पाणां कुसुमानां मधु रसस्तेन मकरन्देन केलीभुवः क्रीडास्थानानि पङ्किला फर्दमसंयुक्ता जाताः । सर्वे पादपा वृक्षाः कुसुमानां पुष्पाणां प्राग्भारतो बाहुल्यात्तद्भारात् भङ्गस्य पतनस्य त्रुटनस्येत्यर्थ. भयं भाति दिशन्ति प्रकटयन्ति । सम्प्रत्यधुना चैत्रेण वसन्तेन लक्ष्येष्वलक्ष्येषु च लक्षेष्वलक्षेषु च निविचारमित्यर्थः । बाणमोक्षे शरसन्धाने रसिकः समासक्तः कामोऽस्त्राणां शस्त्राणां परम्परा समूहस्तस्या व्ययविधौ समुत्सर्जनेऽविचार्यं प्रयोगकरणे इत्यर्थः । दैन्यं दीनतां निरुत्साहमिति- भावः । परित्याजित. परिहापितः। अगणितपुष्पास्त्राणां समर्पणावस्त्रविषयकं कामस्य दैन्यं दूरीकृतमिति भावः । शार्दूलविक्रीडितच्छन्दः ।

भाषा

 भरो को मदोन्मत्त करने वाले मकरन्द से कीडास्थलो में कीचड हो गया है । अर्थात् क्रीडास्थलो में अत्यधिकः मकरन्द चुआ है । सभी वृक्ष अत्यधिक फूलो के बोझ से टूट जाने का भय सूचित वरते हैं । इस समय निशाने का चिचार न कर ययेच्छ बाण छोड़ने में आसक्त कामदेव की बाणो के अधिक खर्च अर्थात् समाप्त हो जाने की दीनता को वसन्त ने दूर कर दिया है। अर्थात् वसन्त मे अत्यधिक फूलो के होने से, पुष्पसायक कामदेव को, बिना बिचारे पुष्पबाणो का प्रयोग करने की कोई कमी नही है ।

नीता नूतनयौवनप्रणयिना चैत्रेण चित्रां लिपिं ।
 हर्षाद्वर्पति का न काननमही पुष्पैः कटाक्षैरिव ।
दोलारुढपुरन्धिपीनजघनप्राग्भारमाधुन्वतः
 किं मानद्रुमभञ्जनाय गहनं लङ्कानिलस्याधुना ॥७४॥

अन्वयः

 नूतनयैौवनप्रणयिना चैत्रेण चित्रां लिपि नीता का क़ाननमही कटाक्षैः