पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४६३ )

अन्वयः

 मलयगिरिसमीराः सिंहलद्वीपकान्तामुखपरिचयलब्धस्फारकर्पूरवासाः द्रविडयुवतिदोलाकेलिलोलन्नितम्बस्थलशिथिलितवेगाः (सन्तः) सेव्यताम् आप्नुवन्ति ।

व्याख्या

 मलयगिरिसमीरा मलयाचलानिलाः सिंहलद्वीपस्य ‘सीलोन' इति ख्यातस्य कान्ताः स्त्रियस्तासा मुखन्याननानि तेषां परिचयः सम्पर्कस्तस्माल्लब्दः प्राप्तः स्फारो बहुलः कर्पूरस्य यासः सुगन्धो यैस्ते द्रविडयुवतीनां चोलदेशाङ्गनानां दोलाकेलयः प्रेङ्खाक्रीडास्तासु लोलन्तश्चलन्तो नितम्बा एव स्यलानि तेस्तस्सघट्टनै- रित्यर्थः । शिथिलितः शिथिलीकृतो वेगो जवो ‘वेगः प्रवहजवयोरपि' इत्यमरः । येषां ते तथा सन्तः सेव्यतां प्राह्यतामाप्नुवन्ति लभन्ते । मलयाचलानिलाः fसहलद्वीपनारीमुखसम्पर्कात् कर्पूरगन्धयुक्ताश्चोलदेशाङ्गनानां दोलाक्रीडासु लोलनितम्बसघट्टनात् शिथिलीकृतवेगास्सन्तश्चन्दनजल्पं शैत्यं कर्पूरजन्यं सुगन्धं नितम्बसघट्टनजन्य मन्दत्वञ्च वायूनां शीतलमन्दसुगन्धेति गुणत्रयं धारयन्तः सेव्या भवन्तीति भावः । मालिनीच्छन्दः । उदात्तालङ्कारः ।

भाषा

 मलयाचल के पवन, सीलोन की अङ्गानाओ के मुखो के सम्पर्क से कर्पूर की सुगन्ध को धारण कर और चोलदेश की कामिनियो के रसयुक्त झूला झूलने में चञ्चल नितम्बस्थलो से टकरा कर मन्दगति होने से सेवनीय हो गये थे। अर्थात् दक्षिणानिल, चन्दन का शैत्य, कर्पूर का सुगन्ध और नितम्बो की टक्कर से मन्द गति, एव शीतल, मन्द व सुगन्ध इन तीनो वायुओ के गुणों से युक्त होने से सेवनीय हो गये थे ।

पानीयं नालिकेरीफलकुहरकुहूत्कारि कल्लोलयन्तः
 कावेरीतीरतालद्रुमभरितसुराभाण्डभाङ्कारचण्डाः ॥
उन्मीलन्नोलमोचापरिचयशिशिरा वान्त्यमी द्राविडीनां
 कर्पूरापाण्डुगण्डस्थललुठिनरया वायवो दाक्षिणात्याः ॥७१॥


अन्वयः

  नालिकेरीफलकुहरकुहूत्कारि पानीयं कल्लोलयन्तः, कावेरीतीरतालद्रुम