पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४६५ )

घनुपः त्रैलोक्य-जैत्रास्रतां न बिभर्ति। दोलान्दोलनकेलिलोलवनितासं- चारितास्रः पञ्चेषुः अधुना चललक्षभेबिधिना गर्वं समारोहति ।

व्याख्या

 लता वीरुध ‘लता प्रतानिनी वीरुद्’ इत्यमर । भङ्गालीभिर्भ्रमरपवित- भिज्यां मौर्वीमधिगत अधिज्य सज्ज सन्मथस्य कामस्य धनुश्चापातस्य लीला शोभा लभन्ते प्राप्नुवन्ति । कि पुष्प कुसुम पुष्पधनुष कमस्य त्रैलोक्यस्य त्रिभुवनस्य जैन जयनशीलमस्र तस्य भावस्त्रैलोक्यजैत्रास्त्रता ता न विभर्ति न धारयत्यपि तु सर्वाणि पुष्पाणि त्रैलोक्यजैत्रास्त्रता धारयन्त्येव । दोलासु प्रेङ्खास्वान्दोलन- केलय दोलावेगेनोपर्यघोगमनक्रीडास्ताभिर्लोलाश्चला वनितास्तासु सञ्चारितानि सम्त्रापितान्यस्त्राणि येन स अथवा वनिता एवाऽङ्गना एव सञ्चारितानि प्रयुक्ता- न्यस्त्राणि येन स पञ्च इषवो बाणा यस्य स कामोऽधुनेदानीं वसन्तसमये चलान्यस्थिराणि लक्षाणि शरव्यणि ‘लक्ष लक्ष्य शरुव्य घ' इत्यमर । अङ्गना रूपाणि कामुकरूपाणि वा तेषा भेदो विदारण तस्य विधि करण तेन गवं दर्प समरोहति प्राप्नोति । स्थिरलक्ष्यभेदादस्थिरलक्षभेदन कठिनमिति दर्पहेतु । काव्यलिङ्गमलङ्कार ! शार्दूलविक्रीडितच्छन्द ।

भाषा

 लताएँ भौंरो को कतारो रो युक्त होने से कामदेव के मौर्वी से युक्त अर्थात् सज्ज घनुष की शोभा को प्राप्त कर रही है । कौन फूल, कागदेवव के , तीनो लोको को जीतने योग्य अस्रत्व को नही धारण करते है अर्थात् सभी फूल तीनो लोको को जीतने वाले अस्त का काम करते हैं । हिंडोले के, ऊपर नीचे होने की क्रीडा से चचल कामियो और कामिनिओ पर अस्त्र का प्रयोग करने वाला कामदेव इस वसन्त ऋतु में अस्थिर निशाने का भेदन करने के कार्य से, या चचल कामिनी रूपी अस्त्र का प्रयोग करने वाला कामदेव इस वसन्तऋतु में कामुक रूपी अस्थिर निसाने का भेदन करने के प्रावीण्य स, धमण्ड कर रहा है ।

उन्माद्यन्मधुपेन पुष्पमधुना केलीभुवः पङ्किलाः
 सर्वे भङ्गभयं दिशन्ति कुसुमप्राग्मारतः पादपाः ।
चैत्रेणास्रपरम्पराव्ययविधौ दैन्यं परित्याजितः
 कामः सम्प्रति बाणमोक्षरसिको लक्ष्येष्वलक्ष्येषु च ॥७३॥