पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४६० )

 मधुपानां भ्रमराणां वध्वः कान्तास्तासां केलपः क्रीडास्तासु गण्डूषा मूखपूर्तयः ‘गण्डूषो मुखपूर्तौ स्यात्' इति हैमः। तेषां योग्यं तदयं पर्याप्तं सन्नद्धं प्रगुणीभूतं समागतम् । माघवोलतासु मकरन्दाविषयं जातमिति भावः । दाक्षिणात्या दक्षिणदिशात आगता मरुतो मलयानिलाः श्रमेण दूरदेशागमनपरिश्रमेण क्वचिदपि कुत्राऽपि क्षणमीषत्कालपर्पन्तमपि न विश्राम्यन्ति विश्रान्ति न काङ्क्षन्ति । अलिनां भ्रमराणा कृते कोसुमा. पौप्पाः पासुकूटा धूलिसमूहः प्रतिकलं प्रतिक्षणं क्रीडा- शैलीभवन्ति लीलापर्वतीभवन्ति लीलापर्वत इवाऽऽचरन्तीति भावः । अभूततदभावे च्विः। तत्तस्मात् कारणात् पुष्पाण्येव कुसुमयेवाऽस्त्राणि शरा यस्य स पुष्पबाणः कामस्तस्य मित्रं सखा तस्मिन् चैत्रे वसन्ते विद्यमाने सतीहाऽस्मिन् जगति विरहिणां वियोगावस्थापन्नानां स्त्रीपुंसां जीवितस्य जीवनस्याऽऽशा कीदृशी किमिति । न जीवनाशेति भावः । अर्थापत्तिरलङ्कारः । स्रग्धरावृत्तम् । "म्रम्नंर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्” इति लक्षणात् ।

भाषा

 वासन्ती लताओं में मकरन्द, भोरियो के लीलागत कुल्ला करने के योग्य तयार हो गया है । दक्षिण दिशा से बहने वाले मलयानिल, थकावट से कही भी विश्राम नही लेते है अर्थात् लगातार बहते ही रहते है । भौरो के लिये पुष्पधूलि के ढेर प्रतिक्षण क्रीडापर्वत का काम करते है । इसलिये कामदेव के मित्र वसन्त के आने पर वियोगियो के जीते रहने की आशा कैसी ? अर्थात् ऐसे समय में वियोगियो का जीते रहना सम्भव नही है ।

पुष्पैर्भ्राजिष्णुभस्राकरणिमगणितैः शाखिनः के न याता
 श्चञ्चन्निस्त्रिंशलेखामयमिव भुवनं भृङ्गमालाभिरास्ते ।
त्रैलोक्याकाण्डचण्डप्रहरणनिबिडोत्साहकण्डूलदोष्णाः
 पुष्पेशोर्जैत्रशस्त्रव्यतिकरविधये साधु सज्जो वसन्तः ॥६८॥

अन्वयः

 के शाखिनः 'अगणितैः पुष्पैः भ्राजिष्णुभस्त्राकरणिं न याताः । भृङ्ग मालाभिः भुवनं चञ्चन्निस्त्रिंशलेखामयम् इव आस्ते । त्रैलोक्यकाएडचण्ड प्रहरणनिबिडोत्साहकण्डूलदोष्णः पुष्पशोः जैत्रशस्त्रव्यतिकरविधये वसन्तः साधु सज्जः ।