पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४५१ )

अन्वयः

 त्र्यम्बकनेत्रवह्नि: प्रियखण्डितानाम् अयण्डैः पापैः त्वां वियोगिवर्गः क्षयदीक्षितं नूनं महापातकिनं वितर्क्य न पस्पर्श।

व्याख्या

 त्रीणि अम्बकानि नेत्राणि यस्य स त्र्यम्बकः शिवस्तस्य नेत्रवह्निर्नयनाग्निः शिवनेत्रबह्नि: प्रियेण कान्तेन खण्डिता विरहितास्तासा विरहिणीनामथवा प्रिपाः सुदुरम् गता यासां तासां वियोगिनीसम्बन्धिनामित्यर्थः। अखण्डैरतिमहद्भि: पापैर्दुष्कृतैः प्राणापहरणरूपैरित्यर्थः । स्यां वसन्तं वियोगिनां विरहिणां वर्गस्य समूह्स्य क्षये नाशकार्ये दीक्षितं सजातदिक्षं ससद्धमत एव नूनं निश्चयेन महापातकिनं महापापिनं वितर्श्य विचार्य न पस्पर्श न स्पृष्टवान् न वग्यवानिस्यर्थ ।

भाषा

 शकर की आस की आगने, वियोगिनिओ के सम्बन्ध में किये हुए बड़े २ पापो से, तुम को विर लोगो के समूह को नाश करने में लगे हुए अत एव निश्चय पूर्वेक महापातकी समझ कर, नही छूवा अर्थात् नही जलाया ।

हराहवे पञ्चशरं विमुच्य पलायितः क्षत्रपराङ्मुखस्त्वम् ।
अस्य क्षताङ्गस्य पुरोऽधुनात्र हा चैत्रचाण्डाल कथं स्थितोऽसि ॥५८॥

अन्वयः

 क्षत्रपराङ्मुखः त्वं हराहवे पञ्चशरं विमुच्य पलायितः। हे चैत्र चाण्डाल ! अधुना अत्र क्षताङ्गस्य अस्य पुरः हा ! कथं स्थितः असि ।

व्याख्या

 क्षत्रियकुलवाचकस्य क्षत्रशम्वस्याऽत्र लक्षणया क्षत्रिययमोऽर्थः । क्षत्रात् क्षत्रियधर्मपराङ्मुखो निरपेक्षस्त्यक्त क्षत्रियधर्मस्त्वं हरस्य शंकरस्याऽहवो युद्धं तस्मिन्, शङ्करेण राह संजाते युद्धे पञ्चशरं 'कामं कामः पञ्चशरः स्मरः' इत्यमरः । विमुच्य परित्यज्य पलायितोऽपसृत- । प्राणभयात्तमेकाकिनं परित्यज्य पलाप्य दूरं गत इत्यर्थः । चैत्र एव चाण्डालस्तत्सम्बोधने हे चैत्रचाण्डाल ! हे चैत्राधम ! अधुनैवानीमत्राऽस्मिन्प्रदेशे क्षतं भग्नं शरीरं गात्रं यस्य स तस्य भग्नगात्रयाऽस्य कामस्य पुरोऽग्रे हा खेदसूचकमप्ययम् । कथं केन प्रकारेण