पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४४९

अन्वय:

 चित्रीकृतकाननेन चैत्रेण समर्प्यमाणाद्भुतकौसुमास्त्रः अधिज्यधन्वा अपि भगवान् अनङ्गः निषङ्गभारे पराङ्मुखः अभूत् ।

व्याख्या

 चित्रीकृतमलङ्कृतं विभिन्नवर्णनवीनपुष्पादिनेति भावः । काननं वनं ‘अट- व्यरण्यं विपिनं गहनें काननं वनम्' इत्यमरः । येन स तेन चैत्रेण वसन्तमासे नेत्यर्थः । समर्प्यमाणं दीयमानमद्भुतं विचित्रं कौसुमं पौष्पमस्त्रं बाणो यस्मै स ज्यां मौर्वीमधिगतमधिज्यं चतुर्यस्य सः समारोपितचापोऽपि भगवान् पूज्योयनङ्गः कामो निषङ्गभारे तूणीरभारग्रहणे पराङमुखो निरभिलाषोऽभूत् । चैत्रेण कानने महान्पुष्परूपबाणराशिरेकत्रीकृतो दत्तश्च ( कामाय येन बाणसरक्षणाय तूणीरधारणस्याऽऽवश्यकतैव न जातेति भावः ।

भाषा

 जगलो को रंगबिरगी फूलो से सुशोभित करने वाले चैत्र से, आश्चर्यजनक फूल के बाण को पाकर, धनुष चढाकर रखने वाले भी भगवान् कामदेव, तरकस धारण करने में विमुख रहे । अर्थात् सदैव चैत्र द्वारा पुष्पबाण दिये जाने के कारण धनुष चढ़ाए रहने पर भी तरक्स में बाण रखकर उसे पीठ पर लटका रखने की आवश्यकता भगवान् कामदेव को न पडी ।  {{bold|<poem>शृङ्गारिणीमार्जितदन्तपंक्ति-कान्त्येव निर्यन्त्रणमुच्छलन्त्या। प्रक्षाल्यमानस्य शनैरवापुरनिन्द्यमिन्दोः किरणाः प्रसादम् ॥५५॥

अन्वय:

निर्यन्त्रणम् उच्छलन्त्या श्रृगारिणीमार्जितदन्तकान्त्या प्रक्षाल्यमानस्य

इव इन्दोः किरणाः शनैः अनिन्धं प्रसादम् अवापुः ।

ब्यख्या

 नियन्त्रणं निरर्गलमुच्छलन्त्योध्वं प्रसरन्त्या श्रृङ्गारिंणीभिरङ्गनाभिर्मार्जिता स्स्वच्छीकृता यवलीकृता इत्यर्थः। दन्ता दशनास्ताषां कन्तिस्तया प्रक्षाल्यमानस्य संमार्जितस्येव धवलीकृतस्येवेत्यर्थः । इन्दोश्चन्द्रस्य किरणाः कराः शनैःक्रमशोड निन्द्यं निर्मलं प्रसादं धावल्यमवापुः प्रापुः । उत्प्रेक्षालङ्कारः।