पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(४४६)

उन्निद्रपक्तिस्थितचम्पकानि चकाशिरे केलिवनान्तराणि ।
वियोगिनीनां कवलीकृतानां सुवर्णकान्च भिरिवाञ्चितानि ॥५०॥

अन्वयः


 उन्निद्रपूक्तिस्थितचम्पकानि केलिवनान्तराणि कवलीकृतानां वियोगि नीनां सुवर्णकाीभिः अञ्चितानि इव चकाशिरे ।

व्याख्या

 उदगता दूरीभूता निद्रा संकोचो येषां तयुन्निद्राणि विकसितानि पंक्तीषु श्रेणिषु स्थितानि विद्यमानानि चम्पकानि चम्पककुसुमानि येषु तानि केलिवनानां फीडश्चनानामन्तरामि मध्यभागाः कवलीकृतानां चम्पकादिपुष्पसमृद्धिमता वसन्तेन भक्षितानां हतानामित्यर्थः। वियोगिनीनां विरहिणीनां सुवर्णकाञ्चीभिः काञ्चनर शनाभिरश्चितानि तरसमानपीतवर्णत्वात्समन्वितानव चकाशिरे विदिधृतिरे । वसन्ते पतिविरहाद्दशमविरहावस्यां प्राप्तानां सृतानामित्यर्थः । वियोगिनीनां पीतवर्णत्वाकाञ्चनकाञ्चीरूपाणीव चम्पकपुष्पाणि शुशुभिर इति भावः । खफलंकरः ।

भाषा

 फूले हुए और कतार में लगे पीले चम्पे के फूलो से युयत क्रीडा कानन के मध्यस्थल, वसन्त ऋतु के कारण पति विप्रोग से दशम विरहावस्था को प्राप्त अर्थात् मृत वियोगिनियो की मातो सोने की पीली करधनियो के रूप से शोभित हो रहे थे ।

मर्मव्यथाविस्मयघूर्णमानमूर्वोच्छलत्कुण्डलविभ्रमेण ।
शब्दानुसारेण वियोगिनीभिः क्षिप्ताः पिकानामिव कण्ठपाशाः ॥५१॥

अन्ययः


 वियोगिनीभिः मर्मव्यथाविस्मयघूर्णमानमूर्वोच्छलत्कुण्डलविभ्रमेण पिकानां शब्दानुसारेण फण्ठपाशाः क्षिप्ताः।

व्याख्या

 वियोगिनीभिर्विरहिणीभिर्मर्मव्ययायाः कोकिलकूजित थषणजनितमामकवेद नाया विस्मयेनाधिक्येनाऽयत्व विस्मयो लोकसीमातिवतित्वं तेन ‘विविधेषु