पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४४२ )


पञ्चमस्वरो लीलाकलपञ्चमो लुलोठ समुच्चारितस्तेनैव सासां कण्ठस्यित पञ्चमस्वरेणैव मदनस्य कामस्य कार्य सर्वलोकविजयात्मकं चक्रे अकारि । पुन्येसुक्रूत्येरेव पिकपञ्चमस्य कोकिलपञ्चमस्वरस्य यशःकीतिरभूत् बभूव । कोकिलपन्चमस्वरस्य यत्कामोद्दीपनत्मक कार्य तद्वियोगिनकण्ठगतपञ्चमस्वर निनादेनैव सम्पादितम् । परन्तु प्रसिद्धिवशात् पुराकृतपुण्यैः कोकिलपञ्चनस्व रस्यैव तद्विषये यशो जातम् ।

भाषा

 विरहजन्य पीडा जनित असामर्थ्य से विरहिणियो के गलों में से जो विलास से भरा सुन्दर पन्चम स्वर निकलता है वही कामदेव के सब कामोद्दीपक कायों को करता है । किन्तु प्रसिद्धि के कारण उसका यश, पुरातन सुकृतो से, कोयल के पञ्चम स्वर को प्राप्त हुआ है ।

पदातिसंवर्गाणकारणेन पदे पदे चम्पकराशिभङ्गया ।
वसन्तसामन्तविकीर्यमाणं हेमेव रेजे स्मरपार्थिवस्य ॥४५॥

अन्वयः

 पदे पदे चम्पझराशिभङ्गया स्मरपार्थिवस्य पदातिसंवर्गएकारणेन बसन्तसामन्तबिकीयंमाणं हेम इव रेजे ।

व्याख्या

 पदे पदे स्थाने स्थाने 'पदं व्यवसितत्राणस्थानलक्ष्माग्निबस्तुषु' इत्यमरः । चम्पकराशिभङ्घा चम्पकपुष्पसमूहव्याजेन स्मरः काम एव पाथ्रिवस्तस्य कामनूपतेः पदातीनां कामसैनिकानां संवर्गणमावर्माजनमाकर्षणमित्यर्थः । तस्य कारणेन वसन्त एव सामन्तस्यहायकनुपस्तेन मन्त्रिणेत्यर्थः। विकीर्यमनमं पुरस्काररूपेण दीयमानं हेमेव सुवर्णमिव रेजे शुशुभे । सापह्नवोप्रेक्ष्यालङार: ।

भाषा

 स्थान स्थान पर, कामदेव की पैदल सेना के लिये, चम्पे के फूलो के ढेर के मिष से, मानो वसन्त रूपी सामन्त राजा अर्थात् गन्त्री के द्वारा पुरस्वार के रूप में दिया जाने वाला सोना ही शोभित हो रहा था ।