पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४१६ )

व्याख्या

दक्षिणमारुतेन मलयानिलेन पदे पदे स्थाने स्थाने मत्तस्य मदान्धस्य चैत्र एव द्विरदो गजः 'दन्ती दन्तावलो हस्ती । द्विरदोऽनेकपो गजःइत्यमरः। तस्यड- क्षूणहेतोरक्षूण विश्रामः सततपरिश्रमेण समागतक्लान्तिस्यन्यूनताया दूरीकरणार्थं विश्रान्तिरित्यर्थः । स एव हेतुः कारण तस्मात् पासवो धूलय एव तल्पानि शय्याः ‘तल्प शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्' इत्यमरः । तानि कर्तुमिव विधातुमिव पुष्पाणां कुसुमाना परागस्य रजस पुञ्जास्समूहा राशीकृता एकत्री कृता । वसन्ते परागस्याऽऽधिक्यं भवति स च मलयमारुतवेगेनैकत्रीभवति श्रम निवारणार्थं मत्तचैत्रगजस्य तल्पताश्च प्राप्नोतीति भावः ।

भाषा

दक्षिणानिलने स्थान स्थान पर मदोन्मत्त चैत्र रूपी हाथी के विश्राम के निमित्त धूलि की कोमल शय्या बनने के लिये मानो पुष्प व धूलि को एकत्र किया ।

लग्नद्विरेफध्वनिपूर्यमाणं वासन्तिकायाः कुसुमं नवीनम् ।
प्रसादयामास वसन्तमास-जन्मोत्सवे मङ्गलशङ्खलीला’ ॥४१॥

अन्वयः

वसन्तमासजन्मोत्सचे लग्नद्विरेफध्वनिपूर्यमाणं वासन्तिकायाः नवीनं कुसुमं मङ्गलशङ्खलीलाम् आसादयामास ।

व्याख्या

वसन्तमासस्य मधुमासस्य मन्मन उदयतरन्, लग्ना इलष्ट द्विरेफा

समु धातुरूपाणि प्रत्ययाश्च तत परे । वार्षाद्विद्यादनूबन्य 'टु ' गल --आदादिवशतोभवे नाश्च प्ररपये याहुलपट्टीयं नुदसमासे अणशब्दो निष्पन्न 1 न णमण गत्ययरोथ विश्राम इत्यर्थे ।

  • उक्त साहित्यदर्पणे-

मल्लेि मुटुले पडि भाति जनसंघुश्रते । प्रपण पञ्चबाणस्य ३ द्धमापूरयन्निय