पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४१३ ) 

तिर्यगादिरेखाबाहुल्यमेव रचयन्ति तथैव क्ष्माफलकै वसन्तागमनात्पुष्पधूलि- बाहुल्यात्तत्र भृङ्गीणा भ्रमणेन तत्पादजनितरेखाकदम्बक कविः बालस्य वसन्त स्याऽक्षरज्ञानभ्यासे क्ष्मापट्टिकायां तिर्यग्रेखादिकमित्युत्प्रेक्षते ।

भाषा

पृथ्वी रूपी पटिया पर भ्रमरियो के पावो की पक्तियो से अति कुसुम रज, धीरे २ वर्णमाला सीखने का उत्सव मनाने वाले वसतऋतु की अक्षर माला से मानो अंकित हो, ऐसे शोभित होती थो। अर्थात् वसतऋतु में पृथ्वीपर बहुत पुष्परज गिरने से ओर उनपर भ्रमरियो के चलने से बनी लकीरो से कवि उत्प्रेक्षा करता है कि बालक बसन्त ने मानो अक्षर सीखते समय पृथ्वी रूपी पटिंया पर टेढी मेढी लकीरें खीची हो ।

समारूरोहपरि पादपानां लुलोठ पुष्पोत्कररेणुपुञ्जे।
लताप्रसूनांशुकमाचकर्ष क्रीडन्वनैः किं न चकार चैत्रः ।।३७॥

अन्वयः

चैत्रः पादपानाम् उपरि समारूरोह, पुष्पोत्कररेणुपुञ्जे लुलोठ, लता प्रसूनांशुकम् आचकर्षे, वनैः क्रीडन् किं न चकार ।

व्याख्या

चैत्रो वसन्तमासः पादैर्मूलैः पिबन्तीति पादपास्तेषा पादपाना वृक्षाणामुपर्यूध्वं समारुरोह वृक्षान्समाच्छादितवानित्यर्थं । पुष्पाणा कुसुमानामुत्करास्समूहास्तेषा रेणवो धूलयः ‘रेयुर्द्वयोः स्त्रिया पुसि पासुर्वा न द्वयो रज ' इत्यमरः । तेषा पुञ्जे समूहे लुलोठ पपात । लताना वीरूधा प्रसूनान्येव पुष्पाण्येवाऽशुकं श्लक्ष्ण त्वान्मृदुत्वाच्चाम्बरमाचकर्ष बलाद्गृहीतवान् । इत्थ वनैर्वनस्थैर्वस्तुभिः क्रीडन् विहरत् किं न चकार किं न कृतवान् । कर्तव्याकर्तव्यविवेक परिहाय बालवत् यथेच्छ सर्वमेव चैत्रैणाऽनुष्ठितमिति भावः । यथा कश्चित् बालको वृक्षारोहण धूलिविलुण्ठन, अशुकाकर्षणञ्च करोति तथा बालो मधुः धृतवानिति भावः । अत्र समासोक्तिरलङ्कारः ।

भाषा

(बालक) चैत्र अर्थात् वसन्त वृक्ष पर चढ गया । पुष्पो के समूह के पराग में अर्थात् मिट्टी में लौट पौट की, लता के पुष्प रूपी वस्त्र को खीच लिया ।