पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४३२ )

उनके पतिओ द्वारा जल्दी से आकर आलिङ्गन विये जाने के कारण, वियोग से उनकी मृत्यु न हो सकने से, लताएँ वसन्त को हँसने लगी अर्थात् विकसित हो गई।

निवारणं पल्लववीजनानां स्थितिर्निवातेषु गृहोदरेषु ।
सुच्छेप्रबन्धेषु वियोगिनीनामासीदपूर्वः परिहारमार्गः ॥३१॥

अन्वयः

योगिनीनां मूर्च्छाप्रबन्वेषु पल्लवीजनानां निवारणं निवातेषु गृहोदरेषु स्थितिः (इति) अपूर्वः परिहारमार्गः आसीत् ।

व्याख्या

वियोगिनीनां पतिविरहितानां कामिनीनां मूर्च्छाप्रबन्धेषु पतिविरहजन्य दुःखातिशयात्संज्ञाशून्यदशायां पल्लवः किसलयैर्घजनानि वायुसञ्चालनानि तेषां तत्वात्किसलयेन वायुसंचालनानां निवारणं निषेधः । नास्ति चातो यायुर्येषु ते निवातास्तेषु वायुरहितेषु गुहाणामुदराणि मध्यानि तेषु गृहसष्यस्यानेषु स्थित- निवास इत्यपूर्वो विचित्रः परिहारमार्गे मूत्रनियारणस्योपचारविधिरासीत् । विरहावस्थायां शयितोपनाय अपि विशिष्टसन्तपचकरा भवन्तीति भावः ।

भाषा

पतिविरहजन्य अधिक दुख से मूर्छित, विरहिणियो की मूर्छावस्था में कोमल पत्तो से ठण्डी हवा झलने का निषेध और वायुरहित गृहमध्य में निवास इत्यादि मूर्छानिवारण के लिये अभूतपूर्व उपचार होते थे । अर्थात् विरहिणियो को विरहावस्था में शीतोपचार अधिक सतापकारक होते हैं । इसीलिपे मूर्छानिवृत्ति के लिये शीतोपचार का निषेध किया जाता था ।

लीलाशुकः कोकिलकूजितानामतिप्रहर्षाद्विहितानुकाराः ।
गृहादधाव्यन्त वियोगिनीभिर्गुणो हि काले गुणिनां गुणाय ॥३२॥

अन्वयः

अतिप्रहर्षात् कोकिलकूजितानां विहितानुकाराः लीलाशुकाः वियोगि नीभिः गृहात् अथाव्यन्त, हि गुणिनां गुणः काले शुणाय (भवति) । १ 'अवाहान्त' इति पाठः साधुतरः ।।