पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४३० )


सङ्गादजस्रं वनदेवतानां लीलावनान्तस्थितयः शकुन्ताः ।
आरुह्य दोलासु विलासिनीनां ताभिः सह भ्रेमुरसंभ्रमेण ॥२८॥

अन्वयः

 लीलावनान्तस्थितयः शकुन्ताः वनदेवतानाम् अजस्रं सङ्गात् विला सिनीनां दोलासु आरूह्य ताभिः सह असंभ्रमेण भ्रेमुः ।

व्याख्या

 लीलावनस्य क्रीडोद्यानस्याऽन्ते मध्ये स्थितिर्निवासो येषां ते क्रीडोद्यानमध्य- वासिनः शकुन्ताः पक्षिणः 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजा. ' इत्यमरः । वनदेवतानामरण्याधिष्ठातृदेवतानामजस्र निरन्तरं 'नित्यानरवरताजस्रमध्ययाति शयो भरः' इत्यमरः । सङ्गात् सहवासाद्विलासिनीनां कामिनीनां दोलासु प्रेङ्खा स्वारुह्य स्थित्वा ताभिर्दोलिनीभिस्सहाऽसंभ्रमेणऽव्याकुलं यथास्यात्तथा भ्रोमुर्ग- तागत चक्रुः। काव्यलिङ्गमलङ्कारः ।

भाषा

 क्रीडोद्यान में रहने वाले पक्षी, वनदेवताओं के निरन्तर साथ रहने से झूला झूलने वाली रूपवती स्त्रियो के झूलो पर बैठ कर उनके साथ निडर होकर झूला झूलते थे । अर्थात् वे रित्रया वनदेवताओं के ऐसी रूपवती थी ।

हस्तद्वयीगाढगृहीतलोल-दोलागुणानां जधने वधूनाम् ।
'असंवृते स्रस्तदुकूलबन्धे किमप्यभूदुच्छ्वसितो मनोभूः ।।२३।।

अन्वयः

 हस्तद्वयीगाढगृहीतलोलदोलागुणानां वधूनां स्रस्तदुकूलबन्धे जघने असंवृते (सति) मनोभूः किमपि उच्छ्वसितः अभूत् । व्याख्या हस्तयोः करयोर्द्वयीति हस्तद्वयी तथा गाढं दृढं गृहीता धृता लीलाश्चञ्चला दोलागुणा दोलारज्जवो याभिस्तास्तासां वधूनां नारीणां स्रस्तः स्थादनाच्च्यु- / २ असवृतस्रस्तदुकुलबन्धै?" इति पाठस्त चिन्त्यः ।