पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४२८ )

अन्वयः

वसन्तः सिञ्जितनूपुराभिः पुरन्ध्रिभिः विलासदोलाः यत् पूरयामास तेन उद्वासां मन्मथराजधानीं वसन्तीम् अकरोत् । (इत्यहं मन्ये ।

व्याख्या

 वसन्तोवरसन्तर्तु, सिञ्जितानि शब्दायमानानि नूपुराणि मञ्जीराणि 'मञ्जीरो नूपुरो स्त्रियाम्इत्यमरः। यासां तास्ताभिः पुरन्ध्रिभिः स्त्रीभिर्विलासदोलाः क्रीडाप्रेङ्खा यत् पूरयामास परिपूरितवान्, तेन कारणेन उद्वासां उद्गता वसन्तो यस्याः सा उद्वता ता जनशून्यामित्यर्थः। मन्मथस्य कामस्य राजधानी प्रधान नगरी ता वसन्तीं जनबहुलामकरोत् कृतवान् । वसन्ते कामिनीकर्तुकविलास दोलाकर्मकक्रमणेन कामराजधानीरूपविलासदोलायां कामिनीजनाध्युषितत्वं सूचितम् । इत्यहं मन्ये तर्कयामि । उत्प्रेक्षालङ्कारः ।

भाषा

 चूंकि वसन्त ऋतु ने शब्द करने वाले पैजेब पहने हुई अङ्गनाओं से, आनन्द देने वाले हिंडोलो को भर दिया । इससे मैं समझता हूं कि वसन्त ऋतु मे कामदेव को उजडी राजधानी को बसा दिया ।

चुचुम्ब वक्त्राणि चकर्ष वस्त्रं चिरं विशश्राम नितम्बबिम्बे ।
दोलाविलासे गुरुराङ्गनानामनङ्कुशः केरलमारुतोऽभूत् ॥२६॥

अन्वयः

केरलमारुतः अङ्गनानां वक्त्राणि चुचुम्य, वसत्रं चकर्षं, नितम्बबिम्बे चिरं विशश्राम । (अतः) दोलाविलासे (अङ्गनानाम्) अनङ्कुशः गुरुः अभूत् ।

व्याख्या

 केरलमारूतो दक्षिणदिगातकेरलदेशपवनो दक्षिणानिल इत्यर्थः । अङ्गनानां स्त्रीणां वक्त्राणि मुखानि चुचुम्ब पस्पर्श । वस्त्रमम्बरं चकर्ष हठ्ठाज्जग्राह । नितम्बबिम्बे पश्चात्कटिभागे चिरं बहुकालं विशश्राम विश्रान्ति लेभे। अतोङ्गनानां

दोलाविलासे प्रेङ्खाक्रीडायामनङ्कुश स्वच्छन्दो गुरुरुपदेष्टा आचार्य इत्यर्थः।

अभूत् संजातः। गुरुर्ययथा स्वशिष्येभ्यः शिक्षां ददाति तथैव दक्षिणपवनोऽङ्गनाभ्यो मुखचुम्बनादिकार्यसाहाय्येन दोलाविलाससम्बन्धिनों शिक्षां दददिति भावः ।