पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४२७ )


भाषा

 दूर तक ऊपर जाकर फिर नीचे आने वाली अर्थात् झूला झुलाने में उठकर बैठने वाली, अपने नितम्बो के शैथिल्य को त्याग कर उनसे काम लेने वाली ललनाएँ हिडोलो के चलाने में जरा भी थकावट का अनुभव न करने से पुरुषो के द्वारा किये जाने वाले काम में अर्थात् विपरीत रति में उत्कृष्टता को प्राप्त हुई । अर्थात् विना थकावट झूला चलाने में अपनी कमर को आगे पीछे करने वाली ललनाओ ने विपरीतरति में अपनी समर्थता का परिचय दिया ।

कुचस्थलैनिर्दलितो वधूनां संजीवितः श्वाससमीरणेन ।
क्लेशातिरेकान्मलयानिलोऽभूद् भृत्येषु मान्यः कुसुमायुधस्य ॥२४॥
}}

अन्वयः

 वधूनां कुचस्थलैः निर्दलितः मलयानिलः श्वासममीरणेन संजीवितः ( सन् ) क्लेशातिरेकात् कुसुमायुधस्य भृत्येषु मान्यः अभूत् ।

व्याख्या

 वधूनां स्त्रीणां कुचस्थलैः कठिनस्तनमण्डलैविदलितः आघातात्संचूर्णितो मलयानिलो दक्षिणसमीरणो वधूतामेव श्वाससमीरणेत विपगजन्यदीर्घश्वास वायुना संजीवितस्सन् समासादितप्राणः सन् प्रवृद्धस्सन्नित्यर्थः । क्लेशस्य कष्टस्याऽतिरेको बाहुल्यं तस्मात् कष्टप्राचुर्यात् कुसुमायुधस्य कामस्य भृत्येषु कर्मकरेषु सहायकेष्वित्यर्थः । मान्यः प्रतिष्ठितोऽभूज्जातः । कामस्य दक्षिणा निलोऽतीव प्रियः सहायकत्वादिति भावः । अत्र समीरणे सेवकवृत्तान्तसमा- रोपात् समासोक्तिरलङ्कारः।

भाषा

 स्त्रियो के कठिन कुचस्थलो से टकराकर गत प्राण होते हुए और स्त्रियो के ही वियोगजन्य उच्छवास से पुन. जीवित मलयानिल, अधिक कष्ट भोगने के कारण कामदेव के भृत्यो या सहायको में मान्य हो गया । अर्थात् मलयानिल कामदेव को प्रधान सहायक हैं ।

यत्पूरयामास विलासदोलाः पुरन्ध्रिभिः सिञ्चितनूपुराभिः ।
तेनोद्वसां मन्मथराजधानीं मन्ये वसन्तो मक़रोद्वसन्तः ॥२५॥
}}