पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४२४ )


लासो युवतीनामतीव कामोद्दीपक इति भावः । यथा स्वल्पावकाशेऽपि संकुचित- स्थाने विदग्यजनः स्वशरीरं तत्र प्रविश्य सुखानुभूति करोतीत्यप्रकृव्यवहारस्य कुसुमायुषव्यवहारे समारोपात्समासोक्तिरलङ्कार्ः ।

भाषा

 क्रीडा के झूले का तख्ता युवतियो के नितम्बों से चारो तरफ से छेक लिया जाने पर अर्थात् वहां बिलकुल जमीन न रहने पर भी, वहाँ केवल अपने धनुष को सिकोड लेने वाले कामदेव ने ही स्थान प्राप्त किया । अर्थात् झूला झूलने से युवतियाँ कामासक्त हो गई ।

सौन्दर्यमिन्दीवरलोचनानां दोलासु लोलासु यदुल्लास ।
यदि ‘प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभूः ॥२०॥
}}

अन्वयः

 लोलासु दोलासु इन्दीवरलोचनानां यत् सौन्दर्यम् उल्ललास,यदि मनोभूः प्रसादात् कवित्वं लभते (तर्हि सः) तत् वर्णयितुं जानाति ।

व्याख्या

 लोलासु चञ्चलासु दोलासु प्रेन्खास्विन्दीवराणीव नीलकमलानीय लोचनानि नेत्राणि यासां तास्तासमङ्गनानां यत् सौन्दर्य रामणीयकमुल्लास प्रादुर्बभूव, यदि मनोभूः कामः प्रसादात्सरस्वत्यनुग्रहात् कवित्वम् काव्योत्पादन प्रागल्भ्यं लभते प्राप्नोति तर्हि स कामस्तत्सौन्दर्यं वर्णयितुं विस्तारेण कथयितुं जानाति पटुस्स्यादित्यर्थः ’ । समर्थः कविरेव स्वकृतेर्गुप्तरहस्यं ज्ञातुं समुद्धाट यितुञ्च क्षमो न त्वन्यः । अतः कामविलासरहस्यं कामस्य कवित्वे एव यायाय्येन वर्णितं स्यान्नत्वन्यस्येति भावः ।


९ 'प्रमादात्' इति पाठस्तु लेखानवघनतंय । चरितचन्द्रिका टिप्पणी कारस्य प्रमादादनवधानता परित्यज्येति भावः 1" इत्यपि चिन्त्यम् । ' 3 त्रिपुरारहस्यमाहात्म्य-लक्ष्म्यास्त्रिपुराप्रसादेन संयमस्य पुत्रत्पेन प्राप्तिः । स कविरासीदिति तस्य त्रिपुरानवकम्" रचनया सिद्धम् । तन्नवमनुष्ठानेन पण्डिताः कवित्व प्राप्नुवन्तीति प्रसिद्धिः ।