पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४२२ )

तम्बानामत्यन्तगुरुत्वाद्दोलावलम्बनरञ्जूनां भङ्गस्तु निश्चितप्राय एवाऽऽसीत् । परन्तु स न जात इत्यत्र कामस्याऽदृष्टमहत्वमेव कारणमिति भावः । काव्य लिङ्गमलङ्कारः ।

भाषा

 चूंकि हिंडोले पर झूलने वाली कामिनियो के नितम्ब के बोझ से झोको में इधर उधर जाने वाली झूले की रस्सियाँ न टूटी इसमें कामदेव की भाग्य सम्पत्ति ही कारण है । अर्थात् उन स्त्रियो के नितम्ब बहुत भारी थे और कामदेव की पूर्ण कृपापात्र थी। अर्थात् पूर्णतया कामासक्त थी।


जनेषु दोलातरलाः पुरन्ध्रीः संभूय भूयःसु विलोकयत्सु ।
लक्ष्यस्य विस्तीर्णातया मनोभूवन्ध्यपातैरिषुभिर्ववर्ष ॥१७॥


अन्वयः

 दोलातरलाः पुरध्रीः भूयःसु जनेषु संभूय विलोकयत्सु (सत्सु) मनोभूः लक्ष्यस्य विस्तीर्णातया अवन्ध्यपातैः इषुभिः ववर्ष।

व्याख्या

 दोलासु प्रेह्वासु सु तरलाश्चञ्चलाः पुरन्ध्रीर्ललनाः (कर्म) ‘पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता' इत्यमरः । भूयःसु बहुलेषु जनेषु कामिजनेषु सभूयै . कत्रीभूय विलोकयत्सु पश्यत्सु सत्सु मनसि भवतीति मनोभूः कामो लक्ष्यस्य शरपातविषयस्य विस्तीर्णतया विशालदेशव्यापित्वेनाऽवन्ध्योऽनिष्फल पातो लक्ष्ये वेधो येषां ते तैरिषुभिः स्वपुष्पबाणैर्वंवर्ष वृष्टवान् । तत्रैकत्रीभूताः कामिजनास्ता दोलास्थितां. कामिनीर्वीक्ष्य कामार्ता जाता इति भावः ।

भाषा

 हिंडोले पर झूलने वाली कामिनियो वो कामी लोगो के इकट्ठा होकर देखते रहने पर कामदेव ने निशाने के स्थूल अर्थात् बडे होने के कारण अपने अमोध बाणो की वर्षा की । अर्थात् उन झूला झूलने वाली स्त्रियो को देखने के लिये इकट्ठा भए हुए सभी कामी जन कामासक्त हो गए ।


दोलाविनोदेन विलासवत्यः सुदुमारुह्य निवर्तमानाः।
अर्ध नमःप्राङ्गणसङ्गिनीनां विलासमापुस्रिदशाङ्गनानाम् ॥१८॥