पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४२१ )

रस शृङ्गाररस एव पार्थिवो राजा तस्य प्रासादाना हर्म्याणा माला पद्धति । अत्युच्चत्वेन निरतिशयरमणीयत्वेन च दोलाविलासे कामसम्बन्धिविमानसृष्टे रसनृपसम्बन्धिप्रासादमालायाश्चाऽऽरोपः । चैत्रस्य चैत्रमासस्य सर्वे सकलमृतु विशेषस्य वसन्तस्य चिन्ह लक्षण यद्वा चैत्रस्य वसन्तस्य सर्वोतृभ्य विशेष विशिष्ट चिह्न लक्षण ‘कलङ्काङ्को लाच्छनञ्च चिन्ह लक्ष्म च लक्षणम्' इत्यमरः । यतो वसन्त एव दोलारोहणक्रीडा विशेषतो भवतीति भावः । सुष्ठु वृशी नयने यासा तास्तासा सुन्दरनयनाङ्गनाना दोलासु प्रेङ्खासु विलास रराज शुशुभे । विशेषविनोदकारित्वेन चैत्रमासभवस्य बस तर्तुसकलचिह्नस्याऽभेदारोपो दोला विलासेऽतोऽत्र मालारूपकम् ।

भाषा

कामदेव की विमान रचना, शृङ्गार रस रूपी राजा के महलो की कतार, चैत्र मासका सब ऋतुओं में श्रेष्ठ वसतऋतु का चिह्न अथवा वसन्त का अन्य

सब ऋतुओ से विशिष्ट चिह्न, सुनयनी स्त्रियो की झूला झूलने की क्रीडा शोभित होने लगी । अर्थात चैत्र मास था वसन्त ऋतु के आते ही सुन्दर नेत्रवाली कामिनियो में झूला झूलन का उमङ्ग, कामदेव की प्रेरणा से काम सम्बन्धि दूर २ की उनकी मानसिक उडानें तथा शृङ्गार रस का साम्राज्य चारोतरफ छा गया ।


दोलाधिरूढस्य वधूजनस्य नितम्यभारेण गतागतेषु ।
त्रुटिर्येंदालम्बगुणेषु नाभूत् सा भाग्यशक्तिः कुसुमायुधस्य ॥१६।

अन्वय:

 यत् दोलाधिरूढस्य वधूजनस्य नितम्बभारेण गतागतेषु आलम्बगुणेषु त्रुटिः न अभूत् सा कुसुमायुधस्य भाग्यशक्तिः ।

व्याख्या

 यदित्यनेन वाक्यार्थपरामश । दोलां प्रेङ्खा ‘दोला प्रेङ्खादिका स्त्रियाम् ' इत्यमरः । 'हिंडोला' इति भाषायाम् । अधिरूढस्समासीनस्तस्य प्रेङ्खास्थितस्य वधूजनस्य कामिनीजनस्य नितम्य श्रोणिस्तस्य भारो गुरुत्व तेन गतमागत मितस्तत सचलनं येषा ते तेष्वालम्बगुणेषु दोलाविलम्बनरज्जुषु त्रुटिर्भङ्गो नाऽभून्न जात सा कुसुमायुधस्य कामस्य भाग्यशक्तिरदृष्टमहत्वम् । ललनानि