पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४१८ )

चाहिये कि वायु के वाहन मृग को मार कर वायु का इस तरफ आना रोक दे । अर्थात् दक्षिणानिलके न आने से विरहजनित पीड़ा न हो सकेगी ।

यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः ।
केलिप्रसङ्गे शवराङ्गनानां स हि स्मरग्लानिमपाकरोति ॥११ ॥

अन्वय:

 यत् वा एतत् दैन्यं मृषा तिष्ठतु । किराताः मरुता वैरं न इच्छन्ति । हि सः शवराङ्गनानां केलिप्रसङ्गे स्मरग्लानिम् अपाकरोति ।

व्याख्या

 यद्वेति पक्षान्तरे एतद्दैन्यं मलयानिलस्य प्रियविप्रलम्भव्यथोद्वलकत्वात्तस्मा- द्भयेन मृगमारणप्रार्थनं भूधा मिथ्या निरर्थकमेवेत्यर्थः । तिष्ठत्वाऽऽस्ताम् । किराताः शबरा मरुता मलपवायुना सह वैरं शत्रुतां नेच्छन्ति नाऽऽकाड़क्षन्ति । हि यस्मात् कारणात् 'हि हेतावधारणे' इत्यमरः । स दक्षिणानिलः शबराणां वने- चराणां ‘भेदाः किरातशबरपुलिन्दम्लेच्छजातयः' इत्यमरः । अङ्गना ललना- स्तासां केलिप्रसङ्गे सुरतक्रीडाकाले स्मरग्लानिं कामोद्वेगजन्यकीडोत्पन्नशरीरिक- श्रमपाकरोति दुरीकरोति । श्रमापनयनेनोपकारित्वादवं दक्षिणानिलो शत्रुभावं न जनयतीति तस्य मृगविनाशाभ्यर्थना वृथैवेति भावः ।

भाषा

 अथवा किरातराज से वायु के वाहन रूप मृग को मारने की अभ्यर्थना व्यर्थ है । किरात लोग दक्षिणानिल से वैर करना नही चाहते । क्योकि वह दक्षिणानिल किरातिनियो की सुरत कीडा में सुरत जनित श्रम का अपहरण करता रहता है । अर्थात् दक्षिणानिल उपकारी होने से उस से किरातराज क शत्रुभाव हो ही नहीं सकता ।

दुराग्रहश्चन्दनमारुतस्य सदा यदन्यर्तुपराङ्मुखोऽयम् ।
अनेन चैत्रः सुतरामसह्यश्चन्द्रोदयेनेव शरत्प्रदोष: ॥१२॥

अन्व्य:

 चन्दनमारुतस्य दुराग्रहः यत् अयं सदा अन्यर्तुप्राङ्मुखः । अनेन चैत्रः चन्द्रोदयेन शरत्प्रदोषः इव सुतराम् असह्यः ।