पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४१५ )

स्योत्तरदिशि विद्यमानोsस्ति ।' उत्तरस्यां दिश्युदीच्यामाशायां 'दिशस्तु ककुभः काष्ठा आशाश्च हऱितश्चता:' इत्यमरः । प्रतस्थे गन्तुमारेभे । रविरुत्तरायणोsभूदिति भाव: अनोत्प्रेक्षालङ्कार: ।

भाषा

 सूर्य अपने रथ के बुढ्ढे घोडों को बदल देने के लिये मानों श्रेष्ठ घोडों के उत्पत्ति स्थान उत्तरदिशा में अर्थात् काबुल में (काबुली घोड़े प्रसिद्ध है ) प्रस्थित हुवा । अर्थात् सूर्य उत्तरायण होने लगे ।

अहो नु चैत्रं प्रति कापि भक्तिरकृत्रिमा केरलमारुतस्य ।
द्राघिष्ठमघ्वानमसौ विलङ्घ्य सर्वत्र तस्यानुचरो यदासीत् ||७॥

अन्वय:

 अहो नु केरलमारुतस्य चैत्रं प्रति अकृत्रिमा का अपि भक्ति: यत् असौ द्राघिष्ठम् अध्वानं विलङ्घ्य सर्वत्र तस्य अनुचरः आसीत् ।

व्याख्या

 "अहो" इस्याश्चर्ये 'नु' इति वितर्के । केरलमारुतस्य दक्षिणस्यकेरलदेश वाहिन: पवनस्य दक्षिणानिलस्येत्यर्थ:। चैत्रे चैत्रमासं प्रति बसन्तकालं प्रतीत्यर्थ: । अकृत्रिमा स्वाभाविकी वाप्यनिर्वचनीयाsपूर्वेत्यर्थ: । भवितरनुराग: । यद्यस्मात्कारणादसौ दक्षिणानिलो द्राघिष्ठमतिदीर्घमध्वानं मार्गं ‘अयनं यस्मै मार्गाध्यपन्थान: पदवी सृतिः' इत्यमरः । विलङ्घ्य समतिक्रम्य सर्वत्र सर्वस्थाने तस्य चैत्रमासस्य वसन्तस्य याsनुचरोsनुगाम्यासीत् जात:। बसन्ते दक्षिणानिल: सर्वत्रैव वहतीति भाव: । अत्र केरलमारुते रोचकव्यवहारामारोपात् समासो विनरलङ्कार: ।

भाषा

 आश्चर्य कि बात है कि केरल के वायु का अर्थात् दक्षिणानिल का चैत्र मास के प्रति अर्थात् वसन्त ऋतु के प्रति एक विलक्षण स्वाभाविक अनुराग है। क्योंकि वह दक्षिण की वायु एक भारी रास्ता तय कर सर्वत्र चैत्र का अर्थात् बसन्त ऋतु का साथ देता था । अर्थात् बसन्त ऋतु में सदैव दक्षिणानिल बहता ही है ।