पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४१४ )

अन्वय:

 गन्धवाहाः पवनाशनाना पन्नगाना निवासदानात् कृतप्रकोपा: इव (सन्तः) चन्दनशैलकुञ्जात् उदीचीम् आशा प्रति विनिर्ययुः ।

व्याख्या

 गन्धवाहा अनिला “गन्धवाहानिलाशुगा' इत्यमर । पवनो वायुरशन भोजन येषा ते तेषा वायुभक्षकाणा पन्नगानामुरगाणा 'उरग पन्नगो भौगी जिहाग पवनाशन' इत्यमर । ‘निवासस्य स्थितेर्दान तस्मात् कृत प्रदर्शित प्रकोप क्रोधो यैस्तेऽमर्षयुक्तास्सन्त इवाऽस्मद्भक्षका एवाऽत्र निवसन्ति ततोऽत्राऽस्मन्निवासो न युक्त इति हेतो कुपिता सन्त इवेत्यर्थ । । चन्दनशैलस्य मलयाचलस्य कुञ्जानिकुञ्जात् निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे' इत्यमर । उदीचीमुत्तरामाशा दिश प्रति विनिययुर्निजग्मु । मधौ दक्षिणानिलो वहतीति प्रसिद्धि। पवने स्वभक्षकसपनिवासहेतुककोपकर्त्तृत्वस्य मलयाचलपरित्यागे हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा ।

भाषा

 वायुगण, वायुभक्षक सर्पों का, मलयाचल द्वारा आश्रय दिय जान से मानो क्रुद्ध होकर मलय पर्वत के कुञ्ज से उत्तर दिशा की ओर भाग चले। अर्थात् दक्षिणानिल उत्तर दिशा की ओर बहन लगा ।


रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥६॥

अन्वय:

 रवि: रथस्थिताना पुरातनाना वाहनाना परिवर्तनाय इव तुरगोत्तमनाम् उत्पत्तिभूमौ उत्तरस्या दिशि प्रतस्थे ।

व्याख्या

 रविस्सूर्यो रथस्थिताना रथे विनियोजिताना पुरातनाना वृद्धानां वाहनाना मश्वाना परिवर्तनायेव तेषां स्थानेऽयनवीनाश्वग्रहणार्थमिव सुरगोतमानामश्व श्रेष्ठानामुत्पत्तिभूमौ जन्मभूमौ काबुलप्रदेश इत्यथ । काबुलप्रदेशो भारत