पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्री ॥

महाकवि श्री बिल्हण-विरचितं

विक्रमाङ्कदेवचरितम्

सप्तमः सर्गः ।

स सर्वमावर्ज्य रिपुप्रमाथी मनोरथानामथ पूरणेन ।
परिभ्रमन्युद्धकुतूहूलेन दिग्दन्तिशेषाः ककुमश्चकार ॥१॥

अन्वयः

अथ रिपुप्रमाथी सः मनोरथाना पूरणेन सर्वम् आवर्ज्य् युद्धकुतूहलेन परिभ्रमन् (सन्) ककुभः दिग्दन्तिशेषाः चकार।

व्याख्या

 अथ विक्रमाङ्कदेवस्य राज्याभिषेकानन्तरं रिपूणां शत्रूणा मर्दय स विक्रमाङ्कदेवो मनोरथानामभिलाषाणां पूरणेन सफलीकरणेन सर्व जनसमूहमावर्ज्य वशीकृत्य युद्धस्य समरस्य शुतूहलमुत्कण्ठा तेन परिभ्रमन् परितो विचरन् ककुभो दिश ‘दिशस्तु ककुभ काष्ठा आशाश्च हरितश्च ताः' । दिशा बतिनो दिग्द- न्तिनो दिग्गजा एव शेषा अवशिष्टा यासु ताश्चकार सम्पादितवान् । सकल- गजाहरणाद्दिग्गजा एवाऽवशिष्टा आसन्निति भावः । सर्गेऽस्मिन्निन्द्रवज्ज्राच्छन्द ‘स्यादिन्द्रवज्ज्रा यदितौ जगौगः' इति लक्षणात् ।