पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(४०८ )


दिशि दिशि तुरगेषु सान्द्रशङ्खस्वनकमनीयसहर्षुपितेषु ( सत्सु ) ( विक्र मादित्यदेवोऽभिषेकमलभतेत्यन्वयः । )

व्याख्या

वरकरिषु श्रेष्ठ गजेषु गर्जतेन बृंहितेन गभीरदुन्दुभीनां गम्भीरभेरीणां ‘भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । ध्वनि शब्दं संजनयत्सु सस्त्विव, दिशि दिशि प्रतिदिशं तुरगेषु घोटकेषु सान्द्रा घना गम्भीरा वा शङ्खाना कम्बूना स्वनाः शब्दा इव कमनीयानि मनोज्ञानि सहर्षाणि प्रमोदसहितानानि हेपितानि तुरग रवाः येषां ते तेषु गम्भीरकम्बुशब्दमनोज्ञसप्रमोबहेपित्तेषु सत्सु (विक्रमादित्य देवोऽभिषेकमलभतेति ।

भाषा

श्रेष्ठ हाथियो की गर्जना से मानो उनके भेरीनाद करते रहने पर और चारो ओर घोडो के, गम्भीर शङ्खो की ध्वनि के समान कर्णप्रिय सहर्ष हिन हिनाते रहने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ ।)

अथ सुरपथवल्गद्दिव्यभेरीनिनादं
प्रशमितपरितापं भर्तुलाभात्पृथिव्याः ।
अलभत चिरचिन्ताचान्तचालुक्यलक्ष्मी-
क्लममुपमभिषेकं विक्रमादित्यदेवः ।।९८।।

अन्वयः

 अथ विक्रमादित्यदेवः पृथिव्याः भर्तुलाभात् प्रशमितपरितापं सुरपथ बल्गदिव्यभेरीनिनादं चिरचिन्ताचान्तचालुक्यलक्ष्मीक्लममुषम् अभिषेकम् अलभत ।

व्याख्या

 अय समरविजयानन्तरं बिक्रमादित्यदेवो राजकुमारः पृथिव्याः क्ष्माया भर्तुलभात् सुस्वामिप्रप्त्या प्रशमितः शान्तिं प्रपितः परितपस्सन्तापो हुखं वा येन स तं दूरीकृतदुःख, सुरपये प मनने वल्गन् समुत्कर्षं प्राप्नुवन्दिध्यायाः स्वर्गीयाया भार्या निनादः शब्दो यस्मिन् ( गगनप्रसरत्स्वर्गीयभेरीनिस्वनं, चिराच्चिरकालादारभ्य चिराय वा व्याप्ता चिन्ता स्वस्यामिपराजयजन्यशोको