पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४०२ )

अन्वयः

यमुष्य शत्रुसेनाभटपद्म विमर्दकेलिकालः द्विरदपतिः रणसरः झटिति लक्ष्मीकरधृतविभ्रमपुण्डरीकशेषंं चकार ।

व्याख्या

 अमुष्याऽस्य विक्रमाङ्कदेवस्य शतृणामरीणा सेना चमूस्तस्या ये भटा योधा स्तेषां मुखान्याननान्येव पद्मनि कमलानि तेषां विमर्दवश्चूर्णनमेव केलि क्रीडा तदर्थं कालो यमो विनाशकारित्वात् । ‘कालो दण्डधरः श्रद्धदेवो वैवस्वतोऽन्तकः ' इत्यमरः । द्विरदपतिर्गजनाथो रण एव सग्राम एव सरस्तडागस्तत् रणसरो युद्धतडागो झटिति शीघ्र लक्ष्म्यः श्रियः करेण हस्तेन घृत धारित विभ्रमपुण्डरीक बिलाससितम्भोज 'पुण्डरीक सिताम्भोजम्' इत्यमरः । एव शेषोऽवशिष्टाशो यस्य तच्चकार निष्पादितवान् । रूपकालङ्कारः ।

भाषा

 शत्रु सेना के योद्धाओ के मुख कमलो को चूर २ कर देने की क्रीडा में यमस्वरूप, विक्रमाङ्कदेव के श्रेष्ठ हाथी ने रणरूपी तालाव को जल्दी से महालक्ष्मी के हाथ में विद्यमान विलास का श्वेतकमल मात्र ही शेष रह गया हो, एसा कर दिया । अर्थात् लक्ष्मी के हाथ के कमल को छोड़ कर शत्रु के मुख रूपी सब कमल को रणरूपी सरोवर में नष्ट कर दिया ।

धृतसुभटकरङ्कमङ्कवर्तिद्विरद
घटाविकटास्थिचक्रवालम् ।
रणमनणु कृतान्तभुक्तशेष‌-प्रणयि बभूव शिवासहस्रभोग्यम् ।।८६।।

अन्वयः

धृतसुभटकरम् अङ्क वर्तिद्विरदघटाविकटास्थिचक्रवालं ।

कृतान्तभुक्त

शेष-प्रणयि शिवासहस्र भोग्यम् अनणु रण वभूव ।

व्याख्या

 धृता गृहीता सुभटाना सुयोधना करङ्का अस्थिपञ्जरा येन तत् । अङ्के क्रोडे वर्तीनि गतानि द्विरदाना। गजाना बिकटानि भययङ्करा ण्यस्थिचक्रवाला न्यस्थिसमूहा यस्य तत् , कृतान्तस्य यमस्य भुक्त भोजन तस्य शेषस्तस्य अपि प्रणयि स्थानं शेषयुक्तमित्यर्थं । तद्यमराजभक्षितमासशिष्टयुक्तमिति भाव । शिवानां शृगालीनां सहस्र तेन भोग्य भोगयोग्य रणं युध्दमनणु बहुलं बभूय जातम् ।