पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(३९९ )

अन्वयः

 सुरभिकुशेशयकोशकेलिसक्ता लक्ष्मीः ध्रुवम् अरिषु पदं व्यधत्त । यत् मधुकरमालिक्या इव नृपसुतकरवाललेखया चुम्ब्यते स्म ।

व्याख्या

 सुरभिः सुगन्धिः ‘सुरभिर्घ्राणतर्पण' इत्यमरः । य: कुशेशयस्य कमलस्य “सहस्रपत्रं कमल षतपत्रं कुशेशयम्' इत्यमरः । कोशः कुड्मलं “कोशोऽस्त्रो कुड्मले खङ्गपिधानेऽर्थोघदिव्ययोः' इत्यमरः । तस्मिन्या केलिः क्रीडा तत्र सक्ता संलग्ता लक्ष्मी राज्यलक्ष्मीःकमलं लक्ष्म्या निवासस्थानमिति हैतोस्तत्र सक्तेत्यर्थः । ध्रुव निश्चयेनाऽरिषु शत्रुषु शत्रुशिरस्वित्यर्थः । पदं स्थानं चरण व व्यधत्त कृतवती । यद्यस्मरणान्मधुकराणां भ्रमराणां मालिक समूहस्तया भ्रमरश्रेण्येव नृपसुतो विक्रमाङ्कदेवस्तस्य करवाललेखा कृष्णवर्णा खङ्गरेखा तया चुम्ब्यते स्म प्रेम्णा परिचुम्बिता बभूव । यतो मधुकरमालिकेव कृष्णवर्णंा खङ्गरेखा शत्रुशिर:सु पतति तस्मात् कुशेशयसक्ता लक्ष्मीरवश्यमेव शत्रुशीर सु पद व्यधत्त । कमलाभावे मधुकरमालागमनासम्भवादिति भावः । यत्रोत्प्रेक्षालङ्कारः ।

भाषा

 सुगन्धयुक्त कमल की कली में क्रीडा करने में आसक्त लक्ष्मी अवश्यमेव शत्रुओ के मस्तक पर जा बैठी थी । क्योकि भ्रमर श्रेणी के समान काले रग को विक्रमाङ्कदेव के तलवार को धार शत्रुओं के शिरो में विद्यमान लक्ष्मी का चुम्बन करती थी । अर्थात् शत्रुओ की गर्दन काटती थी ।

अनुकृतसमवर्तिपानलोला-चषककरालकपाल शुक्तिमध्ये ।
करिदशनपरम्परा निपत्य श्रियमतनोदुपदंशमूलकानाम् ॥८५॥

अन्वयः

 करिदशनपरम्परा अनुकृतमवर्तिमानलीला-चषककरालकपालशुक्ति- मध्ये निपत्य ‘उपदंशमूलकाना श्रियम् अतनोत् । यय वेणसहारनाटक तृतीयाधे--"सर्पिर प्रिय ! गृहाणैतत् हस्तिमिरः कपालसचितमग्रमासोपदश पिव नवशोणिताप्तवम् ।"