पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३९८ )

उच्चलत्पताकेऽप्रजस्य ज्येष्ठभ्रातुः सोमदेवस्य सैन्ये बले क्षणमुदचलत् । स विक्रमाङ्कदेवो यत्र यत्र यस्मिन् यस्मिन् स्थाने रणभुवि युद्धभूमौ चचार जगाम तत्र तत्र तस्मिन् तस्मिंस्थानेऽरातीना शत्रूणा यशांसि कीर्तीर्न्यपिबत्पपौ । अत्र सग्रामे स गतस्तत्रैव शत्रून् पराजितवानित्यर्थः ।

भाषा

 वह विक्रमाङ्कदेव झण्डे को फहराने वाले चोल देश के राजा राजिग की सेना में और अपने बड़े भाई सोमदेव की सेना में थोडी २ देर के लिये गया । जहाँ २ युद्धभूमि में वह गया वहाँ २ उसने शत्रुओ के यश को पी लिया अर्थात् उनको हराकर निस्तेज कर दिया ।

पददलितबृहत्कपालजाले करटिनि तस्य दुरापभाजनानाम् ।
सुभटरुधिरसोधुपानकेलिर्व्यघटत तत्र पिशाचसुन्दरीणाम् ॥८३॥

अन्वयः

 तत्र तस्य करटिनि पददलितबृहत्कपालजाले (सति) दुरापभाजनानां पिचाशसुन्दरीणां सुभद्रुधिरसीधुपानकेलिः व्यघटत ।

व्याख्या

 तत्र युद्धे तस्य विक्रमाङ्कदेवस्य करटिनि गजे पदैश्चरणैर्दलितानि खण्डितानि बृहन्ति विशालानि बहूनीत्यर्थ । कपालाना कर्पराणा जालानि समूहा येन स तस्मिनेवं भते सति दुरापानि दुर्लभानि भाजनानि चषकापरपर्यापमद्यपात्राणि यासा तास्तासा पिशाचाना सुन्दर्यंस्तासा पिशाचिनीना सुभटाना सुयोधानां रुधिरस्य शोणितस्य शोणितरूपस्येत्यर्थः । सीधोर्मद्यस्य पानकेलिः पानक्रीडा व्यघटत भङ्गमाप खण्डिता बभूवेत्यर्थः । हस्तिना कपालेषु चूर्णितेषु पात्राभावात् पिशाचिनीना रुधिररूपमद्यपानक्रीडा समाप्तेति भाव ।

भाषा

 युद्ध में विक्रमाङ्कदेव के हाथी के पाव तले बहुत सी खोपडियो के चूर २ हो जाने पर, पानपात्रों को न प्राप्त वरने वाली पिशाचिनियो की, योद्धाओं के रुधिर रूप शराब को पीने की क्रीडा बन्द हो गई ।

ध्रुवमरिषु पदं व्यधत्त लक्ष्मीः सुरभिकुशेशयकोशकेलिसक्ता।
नृपसुत करवाललेखया यन्मधुकरमालिकयेव चुम्ब्यते स्म ।।८४।।