पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३९६ ) अन्वयः मदकरटी रुधिरभृतकपालपङ्क्तिमध्ये विनिपत्य आगतस्य मृत्योः पानमात्रप्रणयिनम् आसवं कर्णतालैः शिशिरम् इव चकार । व्याख्या मदकरटी मदान्धगजो घिरेण । शोणितेन भूतानि परिपूरितानि कपालानि शिरोऽस्थीनि तेषां पङक्ति श्रेणी तस्या मध्ये विनिपत्य शस्त्रप्रहारेण भग्नस्सन्नयः पतित्वाऽऽगतस्य गजार्थं समुपपातस्य भृत्योर्मस्य पानपात्रे चषके प्रणयिनं स्थित मासव मद्य करणतलेै श्रोत्ररूपतलवृन्तैस्तज्जनितहतपयनैरित्यर्थः । शिशिरमिव शीतलमिव चकार कृतवान् । उत्प्रेक्षालङ्कार । कोई मदान्धहाथी खून से भरी गण्डस्थल को हड्डियो की कतार के बीच में, चोट खा जाने से गिरकर उरसको लेने को आए हुए यमराज के कटोरो में के मद्य को मानो अपने कानरूपी ताड के पंखो से हवा कर ठण्डा कर रहा था । उपरि निपतितः कपालशुक्तेः श्रवणपुटः करिणः कृपाणलूनः । समरभुवि कृतान्तपानलोलाचपकपिधानयिलासमाससाद ।८०।। अन्वयः समरभुवि कपालशुक्तेः उपरि निपतितः कृपाणलूनः करिणः श्रवणपुट छैतान्तपानलीलाचपकपिधानविलासम् आससाद । समरभुवि युद्धभूमौ कपालशुक्ते . शिरोऽस्थिरूपशुक्तेरूपरि (निपतितः सप्राप्तः कृपाणेन खङ्गेन लूनऽच्छिन्न करिणो कस्यचिद्गजस्य । श्रवणपुटः कर्णपुटः कृतान्तस्य यमस्य ‘कृतान्तो यमुनाभ्राता शमनो यमराडयमःइत्यमरः । पानस्य मद्यपानस्य लीलाचषक प्रियपात्र तस्य पिधानमच्छादनं तस्य विलासं शोभा माससाद प्राप । निदर्शनालङ्कार । भाषा ( समराङ्गण में गण्डस्थल की हड़ी रूपी सीषपर, तलवार से कटकर गिरा