पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३९१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्

( ३८३ )

अन्वय:

 किंस्वित् इतः अपसरणं करोमि । एष बाहुः गोत्रवधाय न प्रसरति । परम् अयं दुष्टलोकः अयशांसि मयि निपात्य किम् अपि प्रमोदम् एति ।

व्याख्या

 किंस्विदयवा किमितोऽस्माद्रणाङ्गणादपसरणं पलायनं करोमि । एष मे बाहुर्भुजौ गोत्रस्य मकुलोत्पन्नस्य ज्येष्ठभ्रातुस्सोमदेवस्य वधाय नाशय न प्रसरति व्यापारं न कुरुते । परं किन्त्वय दुष्टलोको दुर्जनसमूहोऽयशास्यपकिर्तिर्मयि विक्रमाङ्कदेवे निपात्य निक्षिप्य किमप्यनिवर्चनियं प्रमोदमानन्दमेति । सन्जनास्तुभ्रातुः संरक्षणार्थं रणं विहाय गत इति यथार्थं कथयिष्यन्ति परन्तु दुर्जना भीत्यैवाऽयं पलायित इति मनसि निर्धार्याऽपयशः प्रसार्य प्रमोदमद्वहिष्यतीति भावः।

भाषा

 अयवा क्या में रणभूमि से भाग चलु ? यह मेरी भुजा अपने कुल के प्राणी का नाश करने मे अग्रसर नही होती है । परन्तु दुष्ट लोग भय से रण छोड़कर भाग गया—ऐसा मेरा अपयश फैलाकर आनन्द करेंगे ।


इति गिरमभिधाय निष्कलङ्कां विशदमनाः शनकैर्यशोधनोऽमौ ।
अनुनयवचनानि तस्य पार्श्वे कति न विसर्जयति स्म राजपुत्रः ॥६०॥

अन्वय:

 विशदमनाः यशोधनः असौ राजपुत्रः इति निष्कलकां गिरं शनकैः अभिघाय कति अनुनयवचनानि तस्य पार्श्व न विसर्जयति स्म ।

व्याख्या

 विशद निर्मलं मनश्चित्तं यस्य स निर्मलचित्तो यदा एव किर्तिरेव धनं वित्तं यस्य सःकीर्तिवित्तोऽसौ राजपुत्रो विक्रमाङ्कदेव इति पूर्वोक्तां निष्कलङ्कां कालुष्यरहितां गिरं वाणी शनकै: शनैरभिधाय स्याद्दश्य कति कियन्त्यनुनयस्य प्रार्थनाया वचनान्युक्तिस्तस्य सोमदेवस्य पाश्वे सन्निधौ न विसर्जयतिंस्म न प्रेषयतिस्म । किन्तु दूतद्वारा बहुतरं प्रार्यनमकरोदिति भावः ।