पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३८० } रामूह उदारो महाशक्तिमन्तौ भुजौ बाहू यस्य तस्य राजसूनो राजपुत्रस्य

विक्रमाङ्कदेवस्य क्रमात् क्रमशो निकटं समीपमवाप्ते प्राप्ते सत्यसी प्रसिद्धो नृपतिर्भूपतिस्सोमदेवोऽप्यपकरणस्य वैरनिर्यातनस्याऽवसरं समुचितसमग्रं चिराद्ब हुकालानन्तरमवाप्याधिगत्य समीप विक्रमाङ्कदेवसमीपमागादाजगाम । भ? धीरे २, द्रविडदेश के राजा चोलराज राजिग की भारी पलटन के महा शक्तिशाली भुजावाले राजपुत्र विक्रमाङ्कदेव के पास आने पर, राजा सोमदेव भी चिरकाल के बाद बैर निकालने का अवसर प्राप्त कर, उसके (बिक्रमाङ्क देव के) समीप आ गया । ग्रहकलितमिवाग्रजं विलोक्य प्रहरणसम्मुखमश्रुपूर्णनेत्रः। किमपि किमपि विक्रमाङ्कदेवश्चिरमनुचिन्त्य निवेदयाच्चकार ॥५५॥ अन्वयः यिक्रमाङ्कदेवः प्रहरणसम्मुखम् अग्रजं ग्रहकलितम् इव विलोक्य अश्रु पूर्णानेत्रः (सन्) किमपि चिरम् अनुचिन्त्य किमपि निवेदयाञ्चकार । विक्रमाङ्कदेवः प्रहरणाय शस्त्रैः प्रहारं कर्तुं सम्मुखं समक्षमागतमग्रजं ज्येष्ठभ्रातरः सोमदेवं ग्रहै शनैश्चरादिपापग्रहैः कलितं ग्रस्तमिव विलोक्य दृष्ट्वाऽश्रुभिर्बाष्पै' पूर्ण व्याप्ते नेत्रे नयने यस्य स बाष्पाम्बुपूरितनयनस्सन् किमपि वस्तु चिरं बहुकालमनुचिन्स्थ विचार्य किमपि वस्तु निवेदयाञ्चकार कथितवान् शनैरुवाचेत्यर्थः । विक्रमाङ्कदेव ने प्रहार करने के लिये उद्यत, दुष्टग्रहोसे गृहीत होने के समान, अपने बड़े भाई सोमदेव को देखकर आंखो में आंसु भरकर बहुत देर क युछ सोच कर कुछ कहना प्रारम्भ किया । अहह महदनर्थबोजमेतद् विधिहतकेन विरोधसारिणोभिः। अविनपरसपूरपूरिताभिर्विहितमकीfर्तफलप्रदानसञ्जम् ॥५६॥