पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३७९ ) बहुभिरभिहितैः किमद्भुतैर्वा भयजननं भुवनैकमल्लसैन्यम् । रणरसचलितं विलोक्य केषामलभत चेतसि नान्तरं विकल्पः ॥५३॥ अन्वयः बहुभिः अद्भुतैः अभिहितैः किं वा। भयजनन भुवनैकमल्लसैन्यं रणसच्चलितं विलोक्य केषा चेतसि विकल्पः अन्तरं न अलभत । व्याख्या बहुभिरनेकैरद्भुतैराश्चार्यकारिभिरभिहितै कथितैर्वर्णनैरित्यर्थ । कि वा किम्फल न किमपीत्यर्थः । भयस्य त्रासस्य जननमुत्पत्तिर्यस्मात्तत भयोत्पादक भुवने जगत्पैकोऽद्वितीयो मल्लो वीरस्सोमदेवस्तस्य सूर्य बल रणस्य युद्धस्य रसेनोत्साहेन चलित समापतन्त विलोक्य दृष्ट्वा केषा नृपाणां चेतसि हृदये विकल्प संशयोऽन्तरमवकाश +अन्तरमवकाशावधिपरिधानन्तद्धिभेदतादथै” इत्यमर । नाऽलभत न प्राप । राजानोऽपि तदबलं वीक्ष्य विजये सशयः युक्तः अभूदिति भाव । बहुत सी आश्चर्यं जनक बातें कहने से क्या लाभ १ भयजनक, जगत् के अद्वितीय वीर सोमदेव की सेना को युद्ध के उत्साह से आई हुई देखकर किन राजाओ के हृदय में संदेह को अवकाश नही मिलता था अर्थात् सभी राजा इसी पलटन देखावर विजय के विषय में सन्दिग्ध हो जाते थे। द्रविडबलभरे क्रमादवाप्ते निकटमुदारभुजस्य राजसूनोः। अपि नृपतरसौ समीपमागादपकरणावसरं चिरादवाप्य ॥५५॥ अस्य द्रविडबलभरे उदारभुजस्य राजसूनोः क्रमात् निकटं अवाप्ते (सति) असो नृपतिः अपि अपहरणायसर चिरात् अयाप्य समीपम् आगात् । यया द्रविडबलानि द्रविडदेशाधिपति । चोलराजराजिगसैन्यानि तेषां भरस्समूह नित्यानवरताजस्रमप्यथातिशयो भर" इत्यमर । तस्मिन् द्रविडराजसैन्य