पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३७० )

अथ षङ्भिः पद्यै- सोमदेवहस्तिनो वर्णयति कचिः-

अनुमरदसितातपत्रमैत्रीं मधुकरमण्डलमाससाद येषाम् ।
अतिविपुलकपोलदानपङ्क-प्रभव सरोरूहिणीदलानुकारम् ॥|४०॥

अन्वय:

 असितातपत्रमैत्रीम् अनुसरत् मधुरमण्डलं येषाम् अतिविपुलकपोल दानपङ्कप्रभवसरोरूहिणीदलानुकारम् आससाद ।

व्याख्या

 असितस्य कृष्णवर्णस्याऽऽतपत्रस्थ छत्रस्य मैत्रीं सादृश्य तामनुसरत्सधारयन्म धुकराणा भ्रमराणा मण्डल समूहो येषा सोमदेव गजानामतिविपुलेष्यत्यन्त- प्रशस्तेपु कपोलेषु गण्डस्थलेषु दान मद एव पङ्क कर्दम स एव प्रभव उत्पत्तिस्थान यासा तासा सरोरुहिणीना कमलिनीना दलाना पत्राणा ‘पत्र पलाश छदनं दल पणं छद पुमान्' इत्यमर । अनुकार साम्यमाससाद भेजेऽनुप्रापेत्यर्थं ।

भाषा

 काले रग के छत्र के समान कृष्णवर्ण भौरो के समूह, सोमदेव के हाथियो । के अति विशाल गण्डस्थलो पर के मद रूपी कीचड में उत्पन्न नीले रंग की कमलिनी के पत्तो की समानता प्राप्त कर रहे थे । अर्थात् नील कमलिनी के पत्तो के ऐसे शोभित होते थे ।

अगणितसृणिभिः प्रधावितैर्यैः कुलगिरयः परिघट्टितास्तटेषु ।
मुमुचुरिव मुखैरजस्रमस्त्रं विगलितधातुतरङ्गिणीमिषेण ॥४१॥

अन्वय:

 अगणितसृणिभिः प्रधावितैःर्यैः तटेषु परिघट्टिताः कुलगिरयः मुखैः विगलितधातुतरङ्गिणीमिषेण अजस्रम् अस्त्रं मुमुचुः इव ।

व्याख्या

 अगणिता उपेक्षिता सृणयोऽङ्कुशा यैस्ते तैरङकुशनिक्षेपानियन्त्रितैः प्रधावितैस्तीक्ष्णवेगेन सचलद्विपैर्गजैस्तटेषु प्रान्तभागेषु परिचघटिता सघट्टं प्रापिता- कुलगिरय कूलपर्वत ‘महेन्द्रो मलय सह्य शक्तिमामशपर्त । विन्ध्यश्च