पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६८ )


भाषा

 यह राजलक्ष्मी पास में आते ही राजाओं में गुणी को गुणरहित, मित्र को शत्रु और विश्वासपात्रो को अविश्वासपात्र रामझाने का भाव उत्पन्न कर उनकी बुद्धि में भ्रम उत्पन्न कर देती है ।

विधिलिखितमिदं कुटुम्बमध्ये नृपतिपदं समुपैति कश्चिदेव ।
इति हृदि न विचारयन्ति भूपाः कुलमपि निर्दलयन्ति राज्यलुब्धाः ३७

अन्यय:

  भूपाः, इदं विधिलिखितं (यत्) कुटुम्बमध्ये कश्चित् एव नृपतिपदं समुपैति, इति हृदि न विचारयन्ति (किन्तु) राज्यलुब्धाः (सन्तः) कुलम् अपि निर्दलयन्ति ।

व्याख्या

 भूपा राजान, इद वक्ष्यमाणं वस्तु विधिना ब्रह्मणा लिखित लेखद्वारा संघटित, यतो लिखितमेव निश्चत भवति न तु भषितम् । यत् कुटुम्बमध्ये कश्चिदेव भाग्यशाली जनो नृणा पतिर्नृपति: स्वामी तस्य पद स्थान राज्यपदवी समुपैति सप्राप्नोतीति विषय हृदि मानसे न विचारयन्ति न परिशीलयन्ति किन्तु राज्ये राजपदे लुब्धा लोलुपास्सन्तः कुलमपि स्ववशमपि निर्दलपन्ति विनाशयन्ति । स्वायोग्यतया स्वकीर्तिमन्तमपि वशमपकौर्त्या क्लङ्कयन्तीति भावः ।

भाषा

 राजा लोग यह नदी विचार करते कि यह ब्रह्मा का लेख है कि कुल में (सव नही, किन्तु) कोई ही राजपद को प्राप्त करने योग्य होता है । किन्तु राज्य के लोभी वनकर ये राजा लोग अपने कुल को भी कलङ्कित कर डालते है ।

|अनुचितमनुना किमग्रजस्य व्यवसितसुन्नतचेतसा यदस्मिन् ।
अपकरणधिया चकार सन्धि कुलरिपुणा सह चोलराज्ञिगेन ।३८।

अन्यय:

 उन्नतचेतसा अमुना अप्रजस्य अनुचितं किं व्यवसितं यत् (सः) अस्मिन् अपकरणधिया कुलरिपुणा चोलराज्ञिगेन सह सन्धिं चकार ।