पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६६ )

अविरततरुणीसहस्रमध्य-स्थितिविगलत्पुरुषत्रता इवैते ।
प्रतिपदमतिकातराः क्षितीशा: परिकलयन्ति भयं समन्ततोऽपि ।३४।।

अन्वयः

 एते क्षितीशाः अविरततरुणीसहस्रमध्यस्थितिविगलटत्पुरुषव्रताः इव प्रतिपदम् अतिकातराः (सन्तः) समन्ततः अपि भयं परिकलयन्ति ।

व्याख्या

 एते इमे दुष्टा: क्षितीशा राजानोऽविरतं सन्तत तरुणीनां युवतीनां सहस्त्रं तस्य मध्ये या स्थितिनिबासस्तपा विगलत्परिपतत्पुरुषाणां नराणां व्रतं धर्मः पौरुषमित्यर्थः । येषा ते निरन्तरयुवतोसहस्रमध्ययित्या नश्यत्पौरुषा इव प्रतिपद प्रतिक्षणमतिकातरा अत्यन्तभीतास्सन्तः समन्ततोऽपि परितोऽपि भयं भितिं परिकलयन्ति परिपश्यन्ति विचारयन्तीत्यर्थः । अत्र तरुणीमध्यस्थितेनंष्टपुरुषबले हेतुत्वेन संभावनादुत्प्रेक्षालङ्कारः

भाषा

 सदैव हजारो युवतियो के बीच में रहने से मातो जिनका पुरुषत्व ही नष्ट हो गया है, ऐसे ये दुष्ट राजा लोग, पद पद पर अत्यन्त कायर होकर, चारो ओर भय ही देखते है । अर्थात् उनको चारो ओर से भय की ही प्रतीति होती है ।

अभिसरणपरा सदा वराकी समरमहाध्वसु रक्तपङ्किलेषु ।
हृदि धरणिभृजामियं नृपश्रीर्निहितपदैव कलङकमातनोति ॥३५॥

अन्वयः

 रक्तपङ्किलेषु समरमहाध्वसु सदा अभिसरणपरा इयं वराकी नृपश्रीः धरणिभुजां हृदि निहितपदा एव कलङ्कम् आतनोति ।

व्याख्या

 रक्तेन रुधिरेण पङ्किला: कर्दमयुक्तास्तेषु समरा युद्धस्थलान्येव महाष्बानो विषममार्गास्तेषु सदा निरन्तरमभिसरणं यानं तस्मिन्पराऽऽसक्ता अभिसारिका वा रक्तपङ्किलयुद्धेषु सदा विहरमाणेत्यर्थः । इयमेषा वराकी असन्तुष्टा दुराचारिणी वा नृपश्री रसजलक्ष्मी धरणिभुजां महीभुजां दुष्टाना राज्ञानमित्यर्थः । हृदि