पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६३ )

भषा

 दुश्चरित्र राजाओ के पाप से उनमें न जाने कहाँ से ऐसी बुद्धि अर्थात् द्धि आ जाती है जिससे राजलक्ष्मी समुद्र के किनारे के पर्वतो से टकराई नाव के समान शीघ्र नष्ट हो जाती है ।


तमिदमिह शस्त्रदेवतानां दृढमधुनापि कलौ निरकुंशेऽपि ।
अविनयपथवर्तिनं यदेताः प्रबलमपि प्रधनेषु वञ्चयन्ति ॥३०||

अन्वयः

 इह निरङ्कुशे अपि कलौ शस्त्रदेवतानाम् इदं दृढं व्रतं यत् एताः अधुना अपि अविनयपथवर्तिने प्रबलम् अपि प्रधनेषु वञ्चयन्ति ।

व्यख्या

 इहाऽस्मिन् जगति निरङकुशेऽपि निष्प्रतिबन्धेऽपि कलौ कलियुगे शस्त्राणामा- युधानां देवतास्तदधिष्ठातृदेवतास्तेषामधुनाऽपि साम्प्रतमपीदमेतद् दृढं निश्चितं व्रतं नियमो यद्यस्मात्कारणादेता' शस्त्राधिष्ठातृदेवता अयिनपस्यद्धत्यस्य पन्था मार्गेडविनयपथस्तस्मिन् वर्तत इत्यविनयपथवर्ती तं कुमार्गगामिनं प्रबलमपि प्रकृष्टबलवन्तं शूरमपि प्रधनेषु युद्धेषु ‘युद्धमायोधनं जन्यं प्रधनं प्रविदीरणम्' इत्यमरः । वञ्चयन्ति नाऽनुगृह्वन्ति तत्समीहितं नोपनयति । काव्य लिङ्गमलङ्कारः ।

भाषा

 इस जगत् में इस निरङ्कुश कलियुग में भी, शस्त्र की अधिष्ठातृ देवताओं का सप्रति भी यह निश्चित नियम है कि वे अनतिमार्गारूढ बलवान् से बलवान् को भी युद्ध में धोखा देती हे । अर्थात् उनका साथ नहीं देती ।


इति मुषितधियः श्रिया प्रयान्त्या रभसवशादविचिन्त्य दग्धभूपाः।
बलमरबहुमानतः पतङ्ग-व्रतमुपयान्ति परग्रतापदीपे ॥३१॥


अन्वयः

 इति प्रयान्त्या श्रिया मुषितधियः दुग्धभूपाः रभसवशात् अविचिन्त्य बलभरबहुमानतः परप्रतापदीपे पतङ्गव्रतम् उपयान्ति ।