पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११ )


सहस्रशः सन्तु विशारदानां वैदर्भीलानिधयः प्रबन्धाः ।
तथापि वैचित्र्यहस्यलुब्धाः श्रद्धां विधास्यन्ति सचेतसोऽत्र t१३॥

अन्वयः

 (यद्यपि) विंशारदानां वैदर्भीलानिधयः प्रबन्धाः सहस्रशः सन्तु । तथापि वैचित्र्यरहस्यलुब्धाः सचेतसः अत्र श्रद्धां विधास्यन्ति ।

व्याख्या

 यद्यपि विशारदाना काव्यनिर्माणकलाप्रवीणाना महाकवीना वैदर्भी लीलेति वैदर्भलीला विदर्भदेशप्रसिद्धो दाक्षिणाढ्याना कविताविलासस्तस्य निधय आकर भूताः प्रबन्धा' कृतयस्सहस्रशोऽगणितास्सन्तु नाम नामेति सम्भावना तथापि वैचित्र्य चमत्कारो ध्वन्यलङ्कारसन्निवेशजन्यस्तस्य रहस्ये सर्मणि लुब्धा लोलुपास्सचेतस काव्यानुभवकूलचेतसा सह वर्तमानाः इति सचेतस सहृदया विद्वांस अत्र विक्रमाङ्कदेवचरितनाम्नि काव्ये श्रद्धा राधा ‘सधा प्रतिज्ञा मर्यादा श्रद्धा सप्रत्यय स्पृहा' इत्यमर १ विशाषप्रीतिमित्यर्थं । विधास्यन्ति करिष्यन्ति ।

भाषा

 यद्यपि काव्यनिर्माणकला में प्रवीण महाकवियो के विदर्भ देशीय दाक्षिणात्यो की वैदर्भीरीति के असंख्य काव्य भले ही विद्यमान हों तो भी ध्वनि, अलङ्कार आदि के सन्निवेश से उत्पन्न होनेवाली विचित्रता के मर्म को समझकर मोहित होनेपाले सह्रदय विद्वद्गर्ग, इस विक्रमाङ्कदेवचरित नामक काव्यपर विशेष प्रेम करेंगे ।

कुण्ठत्यमायाति गुणः कवीनां साहित्यविद्याश्रमवर्जितेषु ।
कुर्यादनार्द्रेषु किमङ्गनानां केशेषु कृष्णागरुधूपवास॥१४।।

अन्वयः

 कवीनां गुणः साहित्यविद्याश्रमवर्जितेषु अनार्द्रेषु कुङ्ठत्वम् आयाति । अङ्गनानाम् अनार्द्रेषु केशेषु कृष्णागरुधूपवासः किं कुर्यात् ।