पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६० )

क्रीडेयेव विघटनं विशुङ्खलनं विधाय सम्पाद्य तरङ्गैर्वीचिभिर्विरचिता राज कुमारस्य स्वागतसंस्कारार्थं सम्यक् संघटिता (माङ्गलिकी) मदनमालिका तोरणस्रक् (बन्दनवार इति भाषायां प्रसिद्धा ।) यया सा तां तुङ्गभद्रां तन्नाम्नीं नदीं पुनरपि मूहुर्जगाम ययौ । तरङ्गाणां वन्दनमालिकाभीरूपणाद्रुपकम् ।

भाषा

वह विक्रमाङ्कदेव, दुर्गम मार्गों में आक्रमण करने वाले कोलभिलादि जंगली धनुर्धारियो को सहज में भगाकर, अपने स्वागत में, लहरो से बन्दन वार बाधने वाली तुङ्गभद्रा नदी पर फिर से गया ।


अथ कतिपुचिदेव दैवयोगात् परिगलितेषु दिनेषु चोलसूनोः ।
श्रियमहरत राजिगाभिधानः प्रकृतिविरोधहतस्य वेङ्गिनाथः ।२६

अन्वयः

अथ कतिपुचित् एव दिनेषु परिगलितेषु दैवयोगात् राजिगाभिधानः वेङ्गिनाथः प्रकृतिविरोधहतस्य चोलसूनाः श्रियम् अहरत ।

व्यख्या

अथाऽनन्तरं कतिषुचिदेव कियत्स्वेव दिनेषु दिवसेषु परिगलितेषु व्यतीतेषु सत्सु दैवयोगाद्भाग्यवशात् राजिग इत्यभिधानं नाम ‘आख्यह्वै ह्यभिधानञ्च नामधेयञ्च नाम च' इत्यमरः । यस्य स राजिगाख्यो वेङ्गिनाथो वेङ्गि- देशाधिपती राजेन्द्रचोलः प्रकृतीना प्रजानां प्रकृतेः स्वभावस्य वा विरोधेन प्रातिकूल्येन वैरेण वा हतस्य मारितस्य चोलसूनोरचोलराजपुत्रस्याऽधिराज- राजेन्द्रस्य प्रियं लक्ष्मीं राज्यमित्यर्थः। अहरत गृहीतवान् ।

भाषा

इसके अनन्तर कुछ ही दिन बीतने पर राजिग उपनामक वेङ्गिदेश के राजा राजेन्द्र चोल ने प्रण के विरोध से य स्वाभाविक वैर से चोल के राजपुत्र अधिराज राजेन्द्र को मारकर उसका राज्य छीन लिया ।

कुटिलमतिरसौ विशङ्कमानः पुनरवुमेव पराभवप्रगल्भम् ।
प्रगुणमकृत पृष्ठकोवहेतोः प्रकृतिविरोधिनमस्य सोमदेवम् ।।२७।।