पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३५६ )


कनकसदनवेदिकान्तरालग्रथितपदः क्षितिपालनन्दनोऽसौ।
सुरशिखरितटीविटङ्कमध्यप्रणयिनमुष्णकरं निराचकार ॥२०॥

अन्वयः

 कनकसदनवेदिकान्तरालग्रथितपदः असौ क्षितिपालनन्दनः सुरशिख रितटीविटङ्कमध्यप्रणयिनम् उष्णकरं निराचकार

व्याख्या

 कनकस्य सुवर्णस्य यत्सदन गृह तस्य वेदिका समुपवेशनाय परिष्कृता भूमिः वेदिः परिष्कृता भूमि' इत्यमरः । तस्य अन्तराल मध्य ’अभ्यन्तरं त्वन्तरालम्' इत्यमरः । तस्मिन् ग्रथित विहित पद चरण येन स असावय क्षितिपालस्याऽड हवमल्लदेवस्य नन्दनः कुमारो विकमाङ्कदेवः सुराणा देवाना शिखरी पर्वतस्सु वर्णाद्रिः सुमेरूस्तस्य तटी प्रान्तभाग एव विटङ्कमुन्नतस्थान तस्य मध्य मध्यभाग स्तस्य प्रणपी स्नेहयशवदस्तद्वर्तीत्यर्थः । तमुष्णकर सूर्यं निराचकार तिरश्चकार । निजोग्रप्रतापेन स्वर्णवेदिविद्यमानत्वेनाऽनुपमशोभया तिरश्चकारेति भावः ।

भाषा

सोने के घर के चौतरे पर चरण रखने वाले राजा आहवमल्लदेव के पुत्र विक्रमाङ्कदेव ने (सोने के) सुमेरु पर्वत के प्रान्त भाग की उच्च भूमि के मध्य में विराजित सूर्य को नीचा दिखाया । अर्थात् सूर्य के समान तेजस्वी विक्रमाङ्क देव के सोने के बने घर को वेदिका पर विराजित होने से इसको शोभा के साभने सुमेरु पर्वत से प्रान्तभाग में विराजित सूर्य की शोभा फीकी पड गई।


कतिचिदपि दिनानि तत्र नीत्वा परिसरभूमिषु भूरिमिविलासैः
चरतणलनिविष्टदुष्टवर्गः पुरमवलोकयति स्म गाङ्गकुंएडम् ॥२१॥

अन्वयः

 चरणतलनिविष्टदुष्टवर्गः (असौ) तत्र परिसरभूमिषु भूरिभिः विलासैः कतिचित् अपि दिनानि नीत्वा गाङ्गकुण्डं पुरम् अवलोकयति स्म ।

व्याख्या

 चरणतले पादतले निविष्टा दलिता दुष्टवर्गा शत्रुसमूहा येन स असौ