पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(३५४ )


अभजत मणिकुण्डलं परस्याः । श्रवणपरिच्युतमंसदेशमेत्य ।
गलविगलितपुष्पबाणचक्रश्रियमसितोत्पलचारुलोचनायाः ॥।१७॥

अन्वयः


 असितोत्पलचारुलोचनायाः परस्याः मणिकुण्डलं श्रवणपरिच्युतं ( सन् ) अंसद्देशम् एत्य गलविगलितपुष्पबाणचक्रश्रियम् अभजत ।

व्याख्या


 असितं नीलमुत्पल कमल तद्वच्चारुणी सुन्दरे लोचने नेत्रे यस्याः सा तस्या नीलकमलवत्सुन्दरनेत्रायाः परस्या अन्यस्याः ललनाया मणिकुण्डल रत्नावतसः श्रवणाभ्यां कर्णाभ्या परिच्युत पतित सत् असदेशं स्कन्धस्थलमेत्य सप्राप्य गले कण्ठदेशे विगलितास्सम्प्राप्ता पुष्पबाणा. कुसुमसायकास्तेषा चक्रे समूहस्तस्य धियं शोभामभजत घारयामास । मणिकुण्डलस्य पुष्पबाणेन साम्यादुपमा । मणिकुण्डलस्य वर्तुलाकारत्वात् कामस्य चक्रश्रियमभजतेत्यर्थः समीचीनः । परन्तु कामस्य चक्रघारणमप्रसिद्धम् ।

भाषा

किसी नीले कमल के ऐसे सुन्दर नेत्रवाली नारी के कान में का मणिकुण्डल गिर कर उसके गले पर आ पडने से वह गले पर पड़े हुए कामदेव के फूल के बाण समूह की शोभा को प्राप्त करता था । कान के अभूषण के गोल होने से कामदेव के चक्र की शोभा अर्थ ही ठीक है । परन्तु कामदेव का चक्र घारण अप्रसिद्ध है ।


परिकलितचुलुक्यराजपुत्र-प्रथमविलोकनकौतुकत्वराणाम् ।
इति नगरकुरङ्गलोचनाना-मभवदनङ्गविलोभनो विलासः ॥१८॥


अन्वयः

 परिकलितचुलुक्यराजपुत्रप्रथमविलोकन कौतुकत्वराणां नगरकुरङ्गलोच नानाम् इति अनङ्गविलोभनः विलासः अभवत् । व्याख्या परिकलितो विदित कैश्चिच्चिह्नविशेषैविज्ञात इत्यर्थः। यष्चुलुक्यराजपुत्रो