पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३४५ )

 प्रहृष्टचेतसि तत्र द्रविडनृपतो गतवति सति स्वनगर प्रति प्रस्थिते सति प्रतिपद प्रतिक्षणमुदकण्ठत समुत्सुको बभूव । तस्य स्मरणेन प्रसन्नो बभूवेत्यर्थ। निर्मलाना। स्वच्छहृदयाणा मनांसि चेतसि कुसुमवत्पुष्पवन्मृदूनि कोमलानि भवन्ति ।

भाषा

केवल गुणों से ही स्नेह करने वाला, पृथ्वी भर के लोगो को सुख देने बाल विक्रमाङ्कदेव अपने आदर की सिद्धि से प्रसन चित्त, द्रविड राजा के चले जाने पर, क्षण २ में उसके लिये उत्कण्ठित होता था। स्वच्छ हृदय वाले मतुप्पो के मन, फूल के ऐसे कोमल होते हैं ।

द्रविडपतिकथाद्भुत क्षणेषु क्षितिपति सूनुरसौ गुणानुरागी ।
पुलकपरिकरैः कपोलपालीं विपुलमतिः परिपूरयाञ्चकार ॥४१

अन्वयः

 विपुलमतिः गुणनुरागी असौ क्षितिपतिसूनुः द्रविड़पतिकथाद्भुत क्षणेषु पुलकपरिकरैः कपोलपालीं परिपूरयाश्चकार ।

व्याख्या

 विपुला विशुद्धोदारेत्यर्थ । मतिर्बुद्धि 'बुद्विर्मनीषा धिषणा धी प्रज्ञा शेमुपी मति' इत्यमर । यस्य स उदारप्रज्ञो गुणेषु सौजन्यादिगुणेष्वनुराग प्रेम यस्य स गुणस्नेह्यसो प्रसिद्ध क्षितिपतेर्नृपस्याडडहवमल्लदेवस्य सूनु पुत्रो विक्रमाङ्कदेवो द्रविडपतेश्चोलराजस्य क्याना वार्तानामद्भुता आश्चर्यान्विता क्षणा अवसरास्तेषु चोलराजसम्बग्घिवृत्तान्तचर्चाकालेषु पुलकानां रोमाञ्चानां परिकरास्समूहास्तै रोमाञ्चप्रकरै कपोलपालीं गण्डस्यलीं परिपूरयाञ्चकार परिपूर्णाञ्चकार । तस्य चोलराजस्य स्मरणमात्रेण प्रेम्णा स रोमाञ्चितोऽभूदिति भावः ।

भाषा

निर्मल बुद्धि वाले गुणग्राही राजा आहवमल्लदेव के पुत्र विक्रमाङ्कदेव के गाल, चोलराज का अद्भुत बातचीत के सिलसिले में रोमाञ्चित हो उठते थे ।

किमिति न गमनान्निवारितोऽसौ परिचयमेष्यति चक्षुषोः पुनः किम्।
इति सुजनशिखामणिः कुमारः किमपि चिरं परिचिन्तयाञ्चकार ॥५॥