पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३४४ )

द्रविडनरपतेरदत्त वित्तं निरवघि कुन्तलनाथनन्दनोऽपि ।
यशसि रसिकतामुपागतानां तृणगणना गुणरागिणां धनेषु ॥२॥ ।

अन्वयः

 कुन्तलनाथनन्दनः अपि द्रविडनरपतेः निरवधि वित्तम् अदत्त । यशसि रसिकताम् उपागतानां गुणरागिणां धनेषु तृणगणना ।

व्याख्या

 कुन्तलनाथस्याऽऽहवमल्लदेवस्य नन्दनः पुत्रो विक्रमाङ्कदेवोऽपि द्रविडस्य द्रविडदेशस्य नरपते रातश्चोलराजस्य नास्त्यवधिस्सीमा यस्य तन्निरबधि प्रभूतं वित्तं धनमदत्त दत्तवान् याचकेभ्य इत्यर्थः । यशसि कीर्तो। ‘यश. कीर्तिः समज्ञा च' इत्यमरः । रसिकतामानन्दानुभूतिमुपागतानां प्राप्तानां गुणेषु सौजन्यादिगुणेषु रागिणोऽनुरागवन्तस्तेषा गुणस्नेहिनां धनेषु वित्तेषु वितविषय इत्यर्थः । तृणस्य आसस्य ‘शष्फ बालतृण घास' इत्यमरः। इय गणता दृष्टिर्भवति। यशस्विनां धनं तूणवन्निर्ऩूल्यमिति भावः । पूर्वार्द्धस्योत्तरार्द्धेन समर्थानादर्थान्तरन्यासोऽलङ्कारः।

भाषा

कुन्तलदेश के राजा आहवमल्लदेव के पुत्र विक्रमाङ्कदेव ने भी द्रबिड राजा वे अपरिमित वित्त को याचको को दे दिया । यश में रसिकता रखने वाले गुणग्राही जन, धन को तृणवत् समझते है ।

मुदितमनसि जातमानसिद्धौ गतवति तत्र गुणैकपक्षपाती ।
प्रतिपदमुदकण्ठत क्षितीन्दुः कुसुममृदूनि मनांसि निर्मलानाम् ॥३॥

अन्वयः

 गुणैकपक्षपाती क्षितीन्दुः जातमानसिद्धौ मुद्रितमनसि तत्र गतवति (सति) प्रतिपदम् उदकण्ठत । निर्मलानां मनांसि कुसुममृदूनि (भवन्ति) ।

व्याख्या

 गुणेष्वेव सौजन्यविगुणेष्वेदेको मुख्यः पक्षपात स्नेहो यस्य स गुणैका नुरक्तः क्षिते पृश्य इन्दुश्चन्द्रो विक्रमाङ्कदेवो (आल्हादकत्वात्) जाता सम्पन्ना मान- स्याऽऽदरस्य सिद्विर्निष्पत्तिर्यस्य स तस्मिन् मुदितं हृष्ट मनश्चित यस्य स तस्मिन्