।। श्री ॥
महाकवि श्री बिल्हण विरचितं
विक्रमाङ्कदेवचरितम्
पष्ठः सर्गः ।
सह विभवभरेण तत्र पुत्रीं गुणनिधये नृपनन्दनाय दत्वा । |
अन्वयः
अथ 'चोलराजः तत्र गुणनिधये नृपनन्दनाय विभवभरेण सह पुत्रीं दत्वा कथमपि परिणेतुः अभ्यनुज्ञां समवाप्य चचाल । २
व्याख्या
अथ विक्रमाङ्कदेवचोलराजयोस्समेलनानन्तर चोलवंशस्य नृपो राजा वीर राजेन्द्ररतत्र तुङ्गभद्रातटे गुणाना शौर्यादिगुणानां निधिराकरस्तस्मै गुणाकराय नृपस्य राज्ञ आहवमल्लदेवस्य नन्दनाय पुत्राय विक्रमाङ्कदेवाय विभवस्य सम्पत्ते र्भरस्समूहस्तेन समृद्भिराशिना सह साकं पुत्रीं स्वात्मजां दत्वा समर्प्य क्वयमपि केनापि प्रकारेण परिणेतुर्विवाहकर्तुरभ्यनुज्ञामाज्ञां समवाप्य लब्ध्वा चचाल स्वराजधानीं प्रति प्रतस्थे । पुष्पिताप्रावृत्तम् ! "अयुजि तयुगरेफतो यकारो युजि च न जो जरगाश्च पुष्पिताया" इति लक्षणात् ।
भाषा
विक्रमाङ्कदेव और चोलराज से मिलाप होने के अनन्तर, चालुदेश के राजा ने तुङ्गभद्रा नदी के तट पर उस गुण की खान, राजपुत्र विक्रमाङ्कदेव को बहुत सी सम्पति के साथ कन्या प्रदान कर, बडी कठिनता से विवाह करने वाले विक्रमाङ्कदेव का आज्ञा पा कर अपनी राजधानी की ओर प्रस्थान किया ।