पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३४१ )

अन्वयः

 इयं भुवनत्रयस्य विभूषणं कन्या, एतत् विपुलं सिंहासनम्, अयं मम आत्मा । तत् इदं व्यस्तम् अथवा समस्तं गृहाण । मम पुण्यैः यशः ताफा प्रणयम् एतु ।

व्याख्या

 इयं पुरतो दृश्यमाना भुवनानां लोकानां त्रयं तस्य त्रिभुवनस्य विभूषण मलङ्कारः कन्या ममात्मजा, एतदर्गे वर्तमानं विपुलं विशालं सिंहासनं राज्या धिष्ठातृसभूपवेशनस्थानं, अयं प्रत्यक्षदृश्यो मम मदीय आत्मा शरीरावच्छिन्न आत्मा । तदिदं पूर्वोक्तं यस्तुजातं व्यस्तमेकैकमथवा पक्षान्तरे समस्तं सर्वं मिलितं गुह्यण स्ववशमानय । मम पुण्यैश्शुभकर्मजन्यादृष्टशशिभिर्यश:पताका मम कीर्तिवैजयन्ती 'पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः । प्रणयमेतु स्फुरतु ।

भाषा

 तीनों लोकों की विभूषणस्वरूप यह मेरो लडकी, यह विशाल राजसिंहासन और यह इस शरीर से आवृत मेरी आत्मा, इन सब वस्तुओं या एक एक करके अथवा इन सभी वस्तुओं का इकठ्ठा ही आप स्वीकार करें। मेरे पुण्यों से मेरी नीतिपताका प्रसन्नता पूर्वक फहराती रहे। अर्थात् मेरे पुण्यों से आपके सम्बन्ध से मेरा यश चिरस्थायी हैं।

कन्यान्तःपुरधाम्नि धैर्यनिधिना माधुर्य धुर्यैः पदै
             रित्यादि द्रविडेश्वरेण निबिडप्रेम्णा मुहुर्व्याहृतः।
चोलीनां कुटिलासु कुन्तललतादोलासु लोलां दृशं
             देवः सोऽथ विनोदयन्मुदमगाचालुक्यविद्याधरः {८६॥]

अन्वयः

 अय कन्यान्तःपुरुषाग्नि धैर्यनिधिना माधुर्यधुर्यैः पदैः इत्यादि निविडप्रेम्णा मुहूः व्याहृतः। सः चालुक्यविद्याधरःरः देवः चोलीनां कुटिलासु कुन्तललतादोलासु लोला दृशं विनोदयन् मुदम् अगात् ।