पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३३५ )

भाषा

 द्रविडदेश के चोलबशीय राजा वीरराजेन्द्र ने भी कौतुक से विक्रमाङ्कदेव को मदोन्मत्त हाथियो से युक्त सेना को देखकर कन्या प्रदान से अनिष्ट रूपी कीचड से अपने राज्य का उद्धार हुआ ऐसा माना ।

प्रेषितैरथ तयोः परस्परं प्रेम्णिं योग्यपुरुपैः प्रपञ्चिते ।
संगमः सकललोकसंमतो जायते स्म गुरुपुण्ययोरिव ॥८०॥

अन्वयः

 अथ प्रेषितै: योग्यपुरुषै: परस्परं प्रेम्णि प्रपञ्चिते तयोः गुरुपुष्ययोः इव सकललोकसम्मतः संगमः जायते स्म ।

व्याख्या

 अथ विक्रमाङ्कदेववीरराजेंद्रयोस्तुङ्गभद्रातटप्राप्यनन्तरं प्रेषितैरुभयपक्षात्प्रापितैर्योग्यपुरुषैश्चतुरजनै: परस्पर मिथ: प्रेम्णि स्नेहे प्रपञ्चिते सम्बन्धिते सति तयोर्विक्रमाङ्कदेववीरराजेन्द्रयोर्गुरुपुष्ययोर्बृहस्पति नक्षत्रयोरिव सकललोकैस्सम्पूर्णजनैस्सम्मतस्समर्पित: संगम. सम्मेलन जायते स्म जातम् । ‘ज्योतिष्शास्त्रे गुरुपुष्ययोगः प्रशस्यत्वेन वर्णित: । सर्वे जना तद्योगस्य शुभफलप्रदत्वञ्चा$$मनन्ति । अत्रोपमालङ्कार:

भाषा

 विक्रमाङ्कदेव ओर वीरराजेन्द्र चोल से तुङ्गभद्रानदी के तटपर आ जाने पर, दोनों ने भेजे हुए कार्यकुशल पुष्पो के परस्पर वार्तालाप से प्रेमवृद्धि होने पर, सब लोगो को अभीष्ट गुरुपुष्ययोग के समान उनदोनो का योग अर्थात् मिलाप हुआ ।

एष स प्रियतमः श्रियः स्वयं कर्मणा मम शुमेन दर्शितः ।
इत्युद्श्रुनयनः प्रभावतः कुन्तलक्षितिपतैरमैस्त सः ॥८१॥

१ गुरुपुख्य़़़़़़़़़व्ब्व्ब्ब्ब़़़्```ग पश्येतस्यामृतसिद्धियोपेप्चतम मदि विष्टिष्यंतीपातो देन वाऽप्यभ भवेत् । हयतेऽमृतयोगेन भास्वरेण तमो मया । मुहूर्वं चिन्तामणिटीवाया पीयूषधाराया दीपिंजवरस्य वचनम् । , ,