पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३३४ )

अन्वयः

 तत्र दक्षिणतटे कृतस्थितिः कुन्तलेन्डुः तद्वलम् अवलोक्य आहवसहस्रदीक्षितं बाहुं वन्दते स्म परिचुम्बति स्म च ।

व्याख्या

 तत्र तस्मिन् दक्षिणतटे तुङ्गभद्राया दक्षिणतीरे कृता सम्पादिता स्थितिर्निवासो येन सः कुन्तलेन्डुः कुन्तलदेशचन्द्रो विक्रमाङ्कदेवस्तस्य चोलराजस्य बलं सैन्यमवलोक्य दृष्ट्वाऽऽहवानां युद्धानां सहस्रं तस्मिन् दीक्षितं संजातदीक्षं युद्धसहप्रकृतानुभवं बाहुं स्वभुजं वन्दते स्म प्रणमति स्म परिचुम्बति स्म च वदनसंयुक्तं करोति स्म च। स्वबाहोर्महतो श्लाघा कृतेति भावः ।

भाषा

 तुङ्गभद्रा नदी के दक्षिण किनारे पर निवास करने वाले कुन्तलेन्दु विक्रमाङ्कदेव ने चोल देश के राजा की सैना को देखकर हजारो युद्धो का अनुभव करने वाली अपनी भुजा को प्रणाम किया और चूम लिया । अर्थात् अपनी भुजा का आदर व प्रेम किया ।

द्राविडोऽपि नृपतिः कुंतूहलाद्रीक्ष्य तत्कटकमुत्कटद्विपम् ।
राज्यमुद्धृतमनर्थपङ्कतः कन्यकावितरणादमन्यत ॥७६॥

अन्वयः

 द्राविडः नृपतिः अपि उत्कटद्विपं तत्कटकं कुतूहलात् वीक्ष्य कन्यकावितरणात् राज्यम् अनर्थपङ्कतः उद्धृतम् अमन्यत ।

व्याख्या

 द्राविडो द्रविडदेशियो नृपश्चोलदेशाधिपो वीरराजेन्द्र नामको भूपतिरप्युत्कटा मदान्धा द्विपा गजा यस्मिस्तन्मदमत्तगजप्रचुरं तस्य विक्रमाङ्कदेवस्य कटकं सैन्यं कुलूहलाकौतुकात् ‘कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः