पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३३३ )

जिगमिषर्बस्ते नदीतीरमार्गे सम्पूर्णैकरात्रिसमयं व्यतीत्यैव राजभवनं प्राप्ता इति सेनायाः विशालत्वं दूरदेशव्यापित्वञ्च सूचितम् ।

भाषा

 चोलराज की उस सेना के तुङ्गभद्रा नदी के किनारे पर ही डेरा रखने के अनुरोध से, (किनारे की सकीर्णता से कतार में बहुत दूर तक टिकी होने से) वह सेना इतनी अधिक विशाल व दूरदेश व्यापी हो गई थी कि राजभवन में जाने वाले सम्पूर्ण रात भर का समय चलने में लगाने पर ही, राज भवन में पहुंच पाते थे ।

चोलकेलिसलिलावगाहन-प्राप्तभूरिघनसारपाण्डुरा ।
सा हिमाचलविटङ्कनिर्गता जाह्नवीव तटिनी व्यराजत ।।७७॥

अन्वयः

 'चोलकेलिसलिलावगाहनप्राप्तभूरिघनसारपाण्डुरा सा तटिनी हिमाचलविटङ्गनिर्गता जाह्नवी इव व्यराजत ।

व्याख्या

 चोलस्य चोलदेशनृपतेश्चोलजनस्य च यत्केलिसलिलावगाहनं क्रीडार्थं जलस्नानं तेन प्राप्तो लब्धो भूरि घनसार: प्रचुरकर्पुरस्तेन पाण्डुरा शुभ्रवर्णा सा प्रसिद्धा तडिनी तुङ्गभद्रानदी ‘तरङ्गिणी शैवलिनी ह्ऱादिनी धुनो'इत्यमरः । हिमाचलस्य तुषाराद्रेविटङ्कं शिखरं ‘कपोतपालिकायान्तु विटङ्कं पुंनपुंसकम्' इत्यमरः । तस्मान्निर्गता निस्सृता जाह्नवीव गङ्गेव व्यराजत शुशुभे । कर्पूरसंमिश्रणात्तुङ्गभद्रायाः कृष्णं जलं गङ्गेव शुभ्रं जातमिति भावः । विटङ्कं क्पोनपालिकायाचकमत्र लक्षणया शिखरयाचमिति । अत्रोपमालङ्कार: ।

भाषा

 चोलदेशीय राजा और प्रजा के जलक्रीडा सहित स्नान करने से, उनके शरीर में पोते हुए कपूर से श्वेतवर्णा घो प्राप्त तुङ्गभद्रानदी, हिमालय के शिखरों से निकली गङ्गानदी के समान प्रोभित्र हुई ।

तत्र दक्षिणतटे कृतस्थितिः कुन्तलेन्दुरवलोक्य तद्वलम् ।
पाहुमाहवसहस्रदीक्षितं वन्दते स्म परिचुम्बति स्म च ||७८||