पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३३२ )

भिर्नदीजलमध्यावस्थितैस्तस्य चोलदेशनृपस्य गजा हस्तिनस्तैः पिशुनतां दुर्जनतां गतैः प्राप्तैरिव शीघ्रं व्रतं प्रतीपा प्रतिकूला गतिर्गमनं यस्यास्सा प्रतीपगतिः प्रतिकूलगामिन्यक्रियत सम्पादिता । यथा केचन पिशुना अन्योन्यं भेदमुत्पाद्योभययाऽपि मध्यस्थाः सन्तः सीमन्तिनीं स्वपत्युर्विपरीतमार्गगामिनीं कुर्वन्ति लयैव पिशुनतामिव गतैस्तैर्गजैर्नदीमध्यस्थै: प्रवाहावरोयेन तुङ्गभद्रा समुद्राद्विपरीतदेशवैवाहिनी कृतेति भावः । गजेषु दुर्जनस्वस्योप्रेक्षणादुत्प्रेक्षा । गजव्यवहारे दुर्जनव्यवहारारोपात्समासोक्तिश्च । अतस्तयोस्संकरः।

भाषा

 जिस प्रकार स्त्री पुरुष में, दोनो ओर से मध्यस्थ बन कर, परस्पर भेद भाव उत्पन्न करने वाले दुर्जन चतुर लोग शीघ्र ही स्त्री को पति के प्रतिकूल बना देते है वैसे ही इस चोल राजा के दक्षिण समुदतट से आए हुए हाथियो ने, तुङ्गभद्रा नदी के बीच में खड़े होकर, प्रवाह के विपरीत बहने से मानो दुर्जनता को प्राप्त भए के समान, तुङ्गभद्रा नदी को समुद्र से विपरीत दिशा में बहने वाली बना दिया ।

सिन्धुतीरनिलयानुरोधतस्तत्तथा बलमवाप दीर्घताम् ।
अन्तरक्षपितरात्रिभिर्जनैः प्राप्यते स्म नृपमन्दिरं यथा ॥७६॥

अन्वयः

 तत बलं सिन्धुतीरनिलयानुरोधतः तथा दीर्घताम् अवाप यथा अन्तर क्षपितरात्रिभिः जनैः नृपमन्दिरं प्राप्यते स्म ।

व्याख्या

 तत् चोलराजस्य बलं शैन्यं सिन्धोस्तुङ्गभद्राया नद्यास्तीरं तटं तस्मिन्निलयोनिवासस्तस्याऽनुरोधोऽनुवर्तेन ‘अनुरोधोऽनुवर्तनम्' इत्यमरः । तस्मातुङ्गभद्रा नदीतटनिवासानुवर्तनात्तथा तादृशीमपूर्वामतिमहतीं दीर्घतां विशालतामवाप प्राप्तं यथा येन प्रकारेणाऽन्तरे मध्ये ‘अन्तरमवकाशावधिपरिधानान्तर्धिभेद तादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमर्ध्येऽतरात्मनि च' इत्यमरः । क्षपिता यापिता रात्रिर्निशा यैस्ते तैर्मार्गगमनेनैव व्यतीतराध्यवच्छिन्नकलैर्जनैः प्रजाभिर्नृपस्य राज्ञो मन्दिरं राजभवनं प्राप्यते स्म गम्यते स्म । तीरभूमेस्संकीर्णत्वाप्तीरे सेनाया बहुदूरपर्यन्तं श्रेणिबद्धनिवासेन पश्चादागता ये केचन राजमन्दिरं