पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३३१ )

रजित: परिजनोऽस्य शीतल-स्वच्छया सपदि तुङ्गभद्रया।
आगता: किमपि पृष्ठतस्तु ये पङ्कशेषमलभन्तं ते जलम् ॥७४॥

अन्वयः

 अस्य परिजनः सपदि शीतलस्वच्छया तुङ्गभद्रया रञ्जित: । ये तु किम् अपि पृष्ठतः आगताः ते पङ्कशेषं जलम् अलभन्त ।

व्याख्या

 अस्प चोलदेशाधिपस्य परिजनोऽनुचरवर्गस्सपि तत्क्षणं ‘सद्यः सपदि तत्क्षणे' इत्यमरः । शीतला शीता चाऽसौ स्वच्छा निर्मला च तया शीतलनिर्मलाम्युयुक्तया तुङ्गभद्रया नद्या रञ्जित: प्रसन्नो जातः । ये तु जना: किमपि पृष्ठतः किञ्चित्कालानन्तरमागतास्तुङ्गभद्रा प्राप्तास्ते पङ्क एव शेषो यस्मिंस्यत्यङ्कशेष कर्दभावशिष्टं जलं सलिलानलभन्त प्राप्तवन्तः । अनेन चोलराजेन सहाऽगतस्य जनसमूहस्या$$धिक्यं सूचितम् ।

भाषा

 उस चोल राजा के नौकर नाफर रीव्र हो ठंढे और निर्मल जल वाली तुङ्ग भद्रा नदी से प्रसन्न हो गए। अर्थात् तुङ्गभद्रा नदी के शीतल और निर्मल जल में स्नान आदि कर उस राजा के नौकरों को बहुत आनन्द मिला । परन्तु जो लोग कुछ देर करके आए उनको गदला पानी ही मिला | अर्थात् उस राजा से साथ में अत्यधिक नौकर चाकर आदि आए थे ।

दक्षिणार्णवतटादुपागतैस्तङ्गजैः पिशुनतां गतैरिव ।
शीघमक्रियत मध्यवर्तिभिः सा प्रतीपगतिरब्धिबल्लभा t७५॥


अन्वयः

 सा अब्धिबल्लभा दक्षिणार्णवतपटात उपागतैः मध्यवर्तिभिः तद्गजै: पिशुनतां गतैः इव शत्रं प्रतीपगतिः अक्रियत ।

व्याख्या

 सा प्रसिद्धा अध्येस्समुद्रस्य बल्लभा प्रिया समुद्रसीमन्तिनी तुङ्गभद्रा नदी दक्षिणोऽर्णस्समुद्रस्तस्य तटातीराददाघौनसमुद्रकूलादुपागतैस्समागतैमैप्यवर्ति-