पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

(८ )


अथ प्रस्तावनामवतारयति कवि:

अनभ्रवृष्टि: श्रवणामृतस्य सरस्वतीविभ्रमजन्म-भूमिः ।
वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ॥

अन्वयः

 श्रवणामृतस्य अनभ्रवृष्टिः सरस्वतीविभ्रमजन्मभूमिः पदानां सौभाग्यलाभप्रतिभूः वैदर्भरीतिः कृतिनाम् उदेति ।

व्याख्या

 श्रवणस्य कर्णस्य यदमृतमानन्ददायिवस्तु तस्य श्रवणामृतस्य कर्ण-पीयूषस्याऽभ्राणां मेघानां ‘अभ्र मेघो वारिवाहस्तनयित्नुर्बलाहक' इत्यमर ।वृष्टिर्वर्षणमभ्रवृष्टिनभ्रिवृष्टिरनभ्रवृष्टिर्मेघमन्तरैव वषर्णरूपा सरस्वत्या वाग्देवताया विभ्रमस्य विलासस्य जन्मभूमिरुत्पत्तिस्थान ‘स्त्रीणा विलास चिद्धोकविभ्रमाललित तथा’ इत्यमर । पदानां शब्दानां सौभाग्यलाभस्य सौन्दर्यप्राप्ते प्रतिभू प्रतिलग्निका वैदर्भरीति गौडपाञ्चालीवैदर्भीति रीतित्रय एकतमा ‘माधुर्यं व्यञ्जकवर्णै रचना ललितात्मिका। अवृत्तिरल्पवृत्तिर्वा वैदर्भीरीतिरुच्यते'। कृतिना विशिष्टकाव्यरचनाकुशलानां पुण्यवतां कवीनामुदेति प्रादुर्भवति । केवल भाग्यवन्त कुशलाश्च तथाविधालौकिकगुणविशिष्ट-वैदर्भरीतौ काव्यं रचयितुं प्रभवन्तीति भाव । वैदर्भरीतौ श्रवणामृतानभ्रवृष्टेर्वाणीविलासजन्मभूमे सौभाग्यलाभप्रतिभूत्वस्य चाऽऽरोपाद्रूपकालङ्कार । 'तद्रूपकमभेदो य उपमानोपमेययोः' ।

भाषा

 वैदर्भीरीति का आविर्भाव उत्कृष्ट और अल्छे काव्य की रचना करने में कुशल पुण्यात्मा कवियों में ही होता है । अर्थात् वैदर्भीरीति में रचना हर एक कवि नही कर सकता । यह वैदर्भीरीति श्रवणेन्द्रिय को आनन्द देने वाले अमृत की सी विना मघ की वर्षा है, वाणी के विलास का जन्म स्थान है और पदो को यथोचित स्थान प्राप्त होकर उनके सौन्दर्यवृद्धि की शामिन है ।

जयन्ति ते पञ्चमनाद-मित्र-चित्रोक्तिसन्दर्भविभूषणेषु ।
सरस्वती यद्वदनेषु नित्यमाभाति वीणामिव वादयन्ती ॥१०॥