( २९८ )
दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः ।
क्षारभावमपनीय गृण्हते वारिधे: सलिलमेव वारिदाः ॥५१॥
अन्वयः
सज्जनाः दोषजातम् अवधीर्यं मानसे गुणम् एव धारयन्ति । वारिदाः वारिधेःक्षारभावम् अपनीय सलिलम् एव गृण्हते ।
व्याख्या
सज्जनाः सत्पुरुषा दोषाणां निन्द्यवस्तूनां जातं समूहं दोषजातं दुर्गुणकुल मित्यर्थः । अवधीयं परित्यज्याऽवहेलनं विधायेति भावः । मानसे हृदये ‘चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । गुणमेव धारयन्ति समादरेण गृण्हन्ति । वारिदा मेघा वारिधेः समुद्रस्य क्षारभावं लवणत्वमपनीय दूरीकृत्य सलिलमेव शुद्ध माधुर्यवज्जलमेव गृह्मते समाददति । दृष्टान्तालङ्कारः ।
भाषा
सज्जनलोग दोषो को छोड कर मन में गुण को ही धारण करते है । मेघ, रामुद्र के खारेपन को छोड़ कर विशुद्ध मधुर जल ही ग्रहण करते है ।
दिग्जयव्यसनिना पुनः पुनस्तस्य किं प्रियमनुष्ठितं मया ।
रज्यते मयि दृढं तथाप्यसौ वेत्ति कश्चरितमुन्नतात्मनाम् ॥५२॥
अन्वयः
पुनः पुन दिग्जयव्यसनिना मया तस्य किं प्रियम् अनुष्ठितम् । तथापि असौ मयि दृढं रज्यते । कः उन्नतात्मनां चरितं वेत्ति ।
व्याख्या
पुनः पुनर्भूयो भूयो दिशां जयो विग्जयस्तस्य व्यसनमस्याऽस्तीति दिग्जय व्यसनी तेन सर्वदिग्वर्तमाननृपमण्डलपराजयदुर्ललितचेतसा मया विक्रमाङ्कदेवेन तस्य द्रविडेन्द्रस्य कि प्रियं हितमनुष्ठितं कृतम् । तथापि मया किञ्चिदुपकारेऽ कृतेऽप्यसौ द्राविडेन्द्रो मयि मत्सम्बन्धे दृढं रज्यते गाढं स्नेहं कुरुते । कः पुरुष उन्नत उत्कृष्ट आत्मा येषां ते तेषामुग्रतात्मनां महात्मनां चरितं माहात्म्यं वेत्ति जानाति । अत्रार्थान्तरन्यासालङ्कार.